________________
३३६
षट्प्राभृते ।
तच्छ्रुत्वा यत्र स्त्रीमुखं न पश्यामि तत्राहं तपः करिष्यामीति कैलासपतं गत्वा तपः कर्तुं लग्नः । तावद्विजयार्धदक्षिणश्रेणौ मेघनिबद्धपत्तने कनकरथो नाम विद्याधरनरेन्द्रः । तदेवी मनोरमा | देवदारुविद्युद्रसनौ द्वौ पुत्रौ । एकदा देवदारुं राज्ये स्थापयित्वा विद्युजिव्हं च युवराजं कृत्वा कनकरथो गुणधरगुरुचरणमूले दीक्षां जग्राह । प्रज्ञप्तिविद्याप्रभावेण विद्युजिव्हेन देवदारुर्जितो निर्घाटितः । कैलासमागत्य सपरिवारो विद्यापुरं कृत्वा निर्भयः स्थितः । तस्य देवदारोः चतस्रो महादेव्यः सत्यः योजनगन्धा, कनका, तरंगवेगा, तरंगभामिनी चेति । चतस्रोऽप्यतिमनोहरशरीराः | योजनगन्धायां गंधिला गन्धमालिनी चेति द्वे धीदे जाते अतिविनीते । कनकायां कनकचित्रा कनकमाला चेति धूदे द्वे जाते । तरंगवेगायां तरंगसेना तरंगवती चेति द्वे कन्ये संजाते । तरंगभामिन्यां सुप्रभा प्रभावती चेति द्वे पतिवरे बभवतुः । एता अष्टावपि दिव्याभरणभूषिता दिव्याम्बरधरा अमरकुमारिका इक कंचुकिपरिवरितास्तिष्ठन्ति । एकदा कैलासोपरि मानससरसि जलक्रीडार्थमागताः पीनोन्नतस्तनशोभिताः स्नानं कुर्वतीस्ता रुद्रो ददर्श । मदनवाणैवक्षास विद्धः । क्षुभितो रुद्रो व्यामोहं प्राप । तेनासन्नस्थितेन कामबाणजर्जरितहृदयेन चिन्तित उपायः । विद्यया सरस्तटस्थितानि वस्त्राभरणानि हारयति स्म । ता अनुपमाः स्नानं कृत्वा तटमागव्य वस्त्राभरणानि न पश्यन्ति स्म । व्याकुलितमनोभिस्ताभिर्मुनिसमीपं गत्वा स मुनिरूचे । स्वामिन् ! न ज्ञायते देवानामपि प्रियाणि अस्माकं वस्त्राभरणानि केनचिद्गृहीतानि । भगवन् ! त्वं ज्ञानवान् जानासि निश्चितं कथय । रुद्र उवाच । जानाम्येव, यदि मामिच्छत यूयं तदा दर्शयामि। एतच्छ्रुत्वा विस्मित्य नवयौवना विद्याधरकुमार्य ऊचुः । मुने!
१ अस्य स्थाने सन्तीति पाठः ख. पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org