________________
मोक्षप्राभृतं ।
३३५ सन् स तपस्तीनं कुर्वाण उत्तरगोकर्णमनि मुक्त्वा कदाचित् राजगृहनगरसमीपे उच्चग्रीवपर्वते स्थितः । एकस्मिन् दिने तद्गुणानुरागिण्यस्तत्रत्यास्तिं वन्दितुमागताः । वन्दित्वा यावद्गिरेवतरन्ति तावन्महामेघवृष्टिरागता । आर्यास्तु स्तिम्यन्त्यो विव्हलीभूता यत्र तत्र गताः। जेष्टार्या सत्यकिमुनेगुहां प्रविष्टा । तत्र वस्त्रं निष्पीलयन्ती ज्येष्ठा सत्यकिना मुनिना दृष्टा । समुत्पन्नकामोद्रेकेण सा तेन भुक्ता। पुनरालोचनां निन्दा गर्हणं च कृत्वा श्रवणधर्मे स्थितः । सा सगी शान्त्यार्यया ज्ञात्वा चेलन्याः समर्पिता- तत्र तिष्ठन्ती सा पुत्रमसूत । स पुत्रोऽभयकुमारेण स्वयंभूगुहायां क्षिप्तः । तत्र रात्रौ स्वप्नदर्शनाच्चेलनया स आनायितः । दर्शनोड्डाहं शमयित्वा स्वयंभूनामा कृतः । ज्येष्ठा तु निःशल्या भूत्वा गता । आर्यायाः पार्वे संयमनियमान् पालयन्ती स्थिता । स्वयंभूस्तु वर्धमानः शिशूनां चपेटादिताडनेन सन्तापं करोति । तद्देव्या चेलनया अपरमपि कालेनायुक्तं दृष्ट्वा स्वयंभूरुक्तः । खलो जारजातो निर्लजः किं केनापि स्वभावं मुंचति । भ्रुकुटिं कृत्वा दुर्वचनेन शूलभिन्न इव ताडितः । पुनः स प्रणामं कृत्वा पृष्टवान्-मातः ! किमेतदुक्तं ? चेलनया तु न किमपि रक्षितं यथोक्तमुवाच। निजोत्पत्तिव्यतिकरं ज्ञात्वा उत्तरगोकर्णपर्वतं गत्वा सत्यकिमुनि नत्वा वैराग्येण दिगम्बरो भूत्वा उत्तरगोकर्णपर्वते स्थितः । गुरुशिक्षया मनो रुद्ध्वा स एकादशाङ्गानि शिक्षितः। तत्र रोहिणीप्रभूतयः पंचशतविद्या महातिशया आगताः सिद्धाः । अपरा अपि अंगुष्टप्रसेनाप्रभृतयः सप्तशतक्षुद्रविद्यास्तस्य सिद्धाः । विद्यासामर्थेन सिंहो भूत्वा जन भीषयति। तद्वृत्तान्तः केनचित् सत्यकेनिरूपितः । गुरुणा स ऊचे-मुने ! तब स्त्रीहेतुना विनाशो भविष्यति।
२ आर्या समस्तापि इति ख. पुस्तके एकवचनान्तोऽशुद्धः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org