________________
३३४
षट्प्राभूतेमालिनी । तयापि पृष्टः त्वं कः ? । स आह । अत्र गिरौ दक्षिणश्रेणी किन्नरगीतपुरप्रभुरत्नमालिमनोहयो: सुतोऽहं रुद्रमाली नाम । बहुभिदिनैः साधितविद्यार्चिमालिनीन्दुवदना सदनं जगाम। मातरपितरौ द्वयोमनो विज्ञाय तयोविवाहं चक्रतुः । तौ रतिरसरंजितौ साधितप्रज्ञप्तिविद्यौ नन्दनवने शान्तिहेतवे जिनस्नपनपूजनस्तवनानि कृत्वा सुखं स्थितौ । मनोजयचित्तवेगौ तस्या मैथुनिकावागत्य महाजालिनीविद्यया रुद्रमालिनं बद्ध्वा प्रगृह्य गतौ। सोऽपि तौ निर्जित्य पुनरागतः । अर्चिमालिन्या सह निजपुरं प्रविवेश । सानुरागस्तस्थौ । एकदा वैराग्यं प्राप्य चारणचरणमूले सभार्यो दिदीक्षे । तौ परस्परं ममायं कान्तो भविष्यति ममेयं प्राणप्रिया भविष्यतीति सनिदानौ सौधर्म संन्यासेन गतौ। तत्रापि दीर्घकालं रतिसुखं भुक्त्वा गन्धारदेशे माहेश्वरपुरे स देवः सत्यन्धरमहाराजसत्यबत्योः सुतः सात्यकिर्जातः । अर्चिमालिनीचरी देवी सौधर्माच्च्युत्वा सिन्धुदेशे विशालीपत्तने चेटकमहाराजसुप्रभादेव्योः सुता ज्येष्ठा जाता।सा सात्यके: पूर्वमेव दत्ता । परं विवाहो न वर्तते । अत्रान्तरे श्रेणिकमहाराजपुत्रः कन्यार्थ सार्थवाहो भूत्वा अभयकुमारो नाम धूर्तस्तत्रागतः । तत्र राजपुत्र्यौ चेलनां ज्येष्टां च चालयित्वा उपायं कृत्वा सुरंगया निःसृतः । तत्र चेलनया जेष्टा आभरणादिमिषेण व्याघोटिता स्वयं श्रेणिकं आगता । यावज्ज्येष्टा जिनप्रतिमां गृहीत्वा गच्छति तावत्तत्र कोऽपि न दृष्टः । जेष्ठा तु लजिता " अहं वृहद्भगिन्या वंचिता" इति वैराग्यण पितृष्वसुर्यशस्वत्याश्चैत्यालये स्थितायाश्चरणमूले दीक्षां जग्राह । कनकांचनवायाः कन्याया वार्ता श्रुत्वा सत्यकिर्नाम कुमारः संसाराद्विरक्तो राज्यलक्ष्मी परित्यज्य समाधिगुप्तं नत्वा जिनदीक्षामग्रहीत् । त्रिगुप्तिगुप्तः
१ आर्यिकायाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org