________________
NAAMANAN
मोक्षप्राभृतं । विसयकसाएहि जुदो रुद्दो परमप्पभावरहियमणो। सो न लहइ सिद्धिसुहं जिणमुद्दपरम्मुहो जीवो ॥४६॥
विषयकाषायैर्युक्तः रुद्रः परमात्मभावरहितमनाः ।।
स न लभते सिद्धसुखं जिनमुद्रापराङ्मुखो जीवः ॥ विसयकसाएहि जुदो विषयैः वनिताजनानामालिंगनादिस्पदिपंचेन्द्रियसुखैः कषायैश्च क्रोधमानमायालोभैः युतः संहितः । रुद्दो परमप्पभावरहियमणो रुद्रः सत्यकिमहाराजपुत्रः परमात्मभावरहितमनाः परमात्मभावनाया: प्रभृष्टः । सो न लहइ सिद्धिसुहं स रुद्रो न लभते न प्राप्नोति, किं ? सिद्धिसुखं आत्मोपलब्धिसुखं । तर्हि किं लभते ? नरकदुःखं लभते इत्यर्थापत्तिः । जिणमुदपरम्मुहो जीवो जिनमुद्रापराङ्मुखो जीवः-जिनमुद्रां परित्यज्य भ्रष्टो बभूवेति भावार्थः ।
रुद्रस्य कथा यथा-अथेह भरतक्षेत्रे विजयापर्वते दक्षिणश्रेण्यां किन्नरगीतनगरे रत्नमाली खगनरेन्द्रो मनोहरीविद्याधरीकान्तः, तत्पुत्रो रुद्रमाली । स एकस्मिन् दिने स्वच्छन्दं वने विहरमाणो विद्यां साधयन्ती विद्याधरकुमारी ददर्श । तद्रूपमोहितो विद्यया भ्रमरो बभूव । षण्मासपर्यन्तं तद्वदनकमले स्थितिं चकार । पुनः सूक्ष्मो भूत्वा स्तनयोजघने च तस्थौ । पश्चात्प्रकटीकृतनिजशरीरः स तया परिंगलितधैर्यो भणित:-प्रतीक्षस्व कियत्कालं तावत् विघ्नं मा कार्षीः । शिखिदुर्लभाविद्या सिद्धयति तस्यां सिद्धायां तव जाया भविष्यामि । हे सुभग ! बद्धानुरागाहं वर्ते । तदा तेन सा पृष्टा । भद्रे ! त्वं कस्य धूदा ? । भणितं च तया । अत्रैव पर्वते उत्तरस्यां श्रेणौ गन्धर्वपुरपत्तनाधीशो मम पिता महाबलः । तस्य प्रभाकरी भार्या । तयो/दा प्रसिद्धाहमर्चि
१ अस्मात्पदादग्रे सुता इत्यपि पाठः ख. पुस्तके वर्तते । स च क, पुस्तके टिप्पणरूपेण वर्तते । धूदा इत्यस्यैव नामान्तरं सुतेति । ज्ञायते खलु लेखकप्रमादोऽयं । यत् मूले प्रक्षिप्तोऽयं सुतेति शब्दः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org