________________
३३२
षट्माभृतं
तिहि त्रिभिः मनोवचनकायैः । तिणि धरवि त्रीन् वर्षाशीतोष्णकालयोगान् धृत्वा । “तुआण तूणाव तुम् च क्त्वायाः” इति प्राकृतव्याकरणसूत्रेण क्त्वास्थानेऽव-आदेशः तेन धृत्वा इत्यस्य स्थाने वरवि इति प्रयोगः साधुः । णिच्चं सर्वदा सर्वस्मिन् दीक्षाकाले । तियरहिओ मायामिथ्यात्वनिदानशल्यत्रिकरहितः । तह तिएण परियरिओ तथा तेनैव त्रिकरहितप्रकारेण, त्रिकेण सम्यग्दर्शनज्ञानचारित्रेण, परिकरितो मंडितः । दोदोसविप्पमुक्को द्विदोषविप्रमुक्तः विशेषेण प्रकर्षण रागद्वेषदोषरहितः । परमप्पा झायए जोई परमात्मानं सिद्धस्वरूपमात्मानं ध्यायति चिंतयति योगी ध्यानवान् मुनिः । अथवा योगीति योगबलेन मनोवाक्काययोगावष्टम्भेन ।
मयमायकोहरहिओ लोहेण विवज्जिओ य जो जीवो । निम्मलसहावजुत्तो सो पावइ उत्तम सोक्खं ॥ ४५ ॥
मदमायाकोधरहितः लोभेन विवर्जितश्च यो जीवः ।
निर्मलस्वभावयुक्तः स प्राप्नोति उत्तम सौख्यम् ॥ मयमायकोहरहिओ मदमायाक्रोधरहितः । लोहेण विवज्जिओ य जो जीवो लोभेन विवर्जितश्च यो जीव आत्मा । निम्मलसहावजुत्तो निर्भलस्वभावः रागादिरहितः परिणामस्तेन संयुक्तः। सो पावइ उत्तमं सोक्खं स जीवः प्राप्नोति लभते, किं ? उत्तमं सौख्यं कर्मक्षयसंजातं-इन्द्रियसुखरहितं-इन्द्रादीनामपि दुलर्भ सौख्यं परमानन्दलक्षणं । तथा चोक्तं---
जे मुणि लहइ अणंतसुहु नियअप्पा झायंतु ।
तं सुहु इंदु वि न वि लहइ देविहिं कोडि रमंतु ॥१॥ १ जो. क. । २ यन्मुनि: लभतेऽनन्तसुखं निजात्मानं ध्यायन । तत् सुखं इन्द्रोऽपि नैव लभते देवीनां कोटिं रममाणः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org