________________
मोक्षप्राभृतं ।
जो रयणत्तयजुत्तो कुणइ तवं संजदो ससतीए । सो पावs परमपयं झायंतो अप्पयं सुद्धं || ४३ ॥ यो रत्नत्रययुक्तः करोति तपः संयतः स्वशक्त्या । स प्राप्नोति परमपदं ध्यायन् आत्मानं शुद्धम् ॥ जो रणत्तयजुत्तो यो जैनो मुनी रत्नत्रययुक्तः सम्यग्दर्शनज्ञान - चारित्रसंहितः सम्यक् श्रद्धानज्ञानानुष्ठानसमुपेतः । कुणइ तवं संजदो संसत्तीए करोति विदधाति सम्यगनुतिष्ठति, किं तत् ? तप इच्छानिरोधलक्षणं आत्मनि ज्ञानवत्तया तपनं संयतो जैनो मुनिः परमोदासीनतालक्षणसंयमं सम्पन्नः स्वशक्त्या आत्मशक्त्यनुसारेण । उक्तं च
3
"
जं सक्कइ तं कीरइ जं च ण सक्केइ तं च सद्दहइ । सद्दहमाणो जीवो पावइ अजरामरं ठाणं ॥ १ ॥
" शक्तितस्त्यागतपसी" इति वचनात् । सो पावर परमपर्यं स प्राप्नोति स मुनिर्लभते, किं तत् ? परमपदं इन्द्रवरणेन्द्रमुनीन्द्रनरेन्द्रवंदितं स्थानं परमनिर्वाणं । झायंतो अप्पयं सुद्धं ध्यायन् सन् एकाग्रतया चिन्तयन्, कं ? आत्मानं निजशुद्धबुद्धैकस्वभावात्मतत्वं शुद्धं द्रव्यकर्मभावकर्मनो कर्मरहितं रागद्वेषमोहादिविवर्जितं कर्ममलकलङ्करहितं प्रत्यक्षतया प्राप्तमिति तात्पर्यार्थः ।
"
तिहि तिणि धरवि णिच्चं तियरहिओ तह तिएण परियरिओ । दोदोसविप्पको परमप्पा झायए जोई ॥ ४४ ॥
३३१
त्रिभिः त्रीन् धृत्वा नित्यं त्रिकरहितः तथा त्रिकेण परिकलितः । द्विदोषविप्रमुक्तः परमात्मानं ध्यायते योगी ॥
१ सशब्दोऽयं टीकायां नास्ति मूलात् संयोजितः । २ यच्छन्नोति तत्क्रियते यच्च न शक्नुयात् तच्च श्रद्धीयते । श्रद्दधानो जीवः प्राप्नोति अजरामरं स्थानं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org