SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३३० षट्प्राभृते श्रवणानां दिगम्बराणां अनगारयतीनां श्रावकाणामपि गृहस्थानां । अपिशब्दाच्चातुर्गतिक जीवानामपि । जीवाजीव विहत्ती जोई जाणे जिणवरमरणं । तं सण्णाणं भणियं अवियत्थं सव्वदरिसीहिं ॥ ४१ ॥ जीवाजीव विभक्ति योगी जानाति जिनवरमतेन । तत् संज्ञानं भणितं अवितथं सर्वदर्शिभिः ॥ 1 जीवाजीव विहत्ती जीवाजीवानां विभक्तिः भेदस्तां जीवाजीववि भक्ति । जोई जाणे जिणवरमएणं योगी दिगम्बरो मुनिः, जानाति वेत्ति यथावत्स्वरूपमवैति, जिनवरमतेन सर्वज्ञशासनेन । तं सण्णाणं भणियं तत्संज्ञानं भणितं तत्सम्यग्ज्ञानं कथितं । अवियत्थं सव्वद - रिसीहिं अवितथं सत्यभूतं, सर्वदर्शिभिः सर्वज्ञैरिति शेषः । उक्तं चअन्यूनमनतिरिक्तं याथातथ्यं विना च विपरीतात् । निःसन्देहं वेद यदाहुस्तज्ज्ञानमागमिनः ॥ १ ॥ जं जाणिऊण जोई परिहारं कुणइ पुण्णपावाणं । तं चारितं भणियं अवियप्पं कम्मरहिए ॥ ४२ ॥ यत् ज्ञात्वा योगी परिहारं करोति पुण्यपापयोः । तत् चारित्रं भणितं अविकल्पं कर्म्मरहितेन ॥ जं जाणिऊण जोई यज्ज्ञात्वा विज्ञाय योगी जैनो मुनिः । परिहारं कुणइ पुण्णपावाणं परिहारं परित्यागं करोति पुण्यपापयोः । तं चारितं भणियं तदात्मना सहकलोलीभावः तन्मयत्वं तत्परत्वं तन्निष्टत्वं तदेकतानत्वं चारित्रं परमोदासीनतालक्षणं भणितं प्रतिपादितं । केन, कम्मर हिल्ण घातिकर्मविध्वंस केन सर्वज्ञेन । तत्कथंभूतं चारित्रं, अवियप्पं अविकल्पं संकल्पविकल्परहितं निर्विकल्पसमाधिलक्षणं यथाख्यातनामकं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy