________________
मोक्षप्राभृतं ।
३२९ दसणसुद्धो सुद्धो देसणसुद्धो लहेइ णिव्वाणं । दंसणविहीणपुरिसो न लहइ तं इच्छियं लाहं ॥३९ ॥
दर्शनशुद्धः शुद्धः दर्शनशुद्धः लभते निर्वाणम् ।
दर्शनविहीनपुरुषः न लभते तं इष्टं लाभम् ।। दंसणसुद्धो सुद्धो दर्शनेन सम्यग्दर्शनेन सम्यक्त्वेन शुद्धो निर्मलो निरतिचारः पंचविंशतिदोषरहितः पुमान् शुद्धः कथ्यते । उक्तं च
सम्यग्दर्शनसंशुद्धमपि मातंगदेह।
देवा देवं विदुर्भस्मगूढागारान्तरोजसं ॥ १॥ दंसणसुद्धो लहेइ णिव्वाणं दर्शनशुद्धः पुमॉल्लभते निर्वाणं मोक्षं । दसणविहीणपुरिसो दर्शनविहीनः पुरुषः सम्यग्दर्शनरहितः पुमान् सम्यक्त्वविवर्जितो जीवः । न लहइ तं इच्छियं लाहं न लभते न प्राप्नोति तं जगत्प्रसिद्धं योगिनां प्रत्यक्षं इष्टं लाभं सर्वकर्मक्षयलक्षणं मोक्षपदार्थ ।
इय उवएसं सारं जरमरणहरं खु मण्णए जं तु । तं सम्मत्तं भणियं समणाणं सावयाणं पि ॥४०॥
इति उपदेशः सारो जन्ममरणहरं स्फुटं मन्यते यत्तु ।
तत् सम्यक्त्वं भणितं श्रमणानां श्रावकाणामपि । इय उवएसं सारं इतीदृश उपदेशः संबोधवचनं, सारं-सारः श्रेष्ठतरः ।
श्रेष्ठे बैले स्थिरस्वान्ते मज्जायां सार उच्यते ।
जले न्याय्ये धने विद्भिः सारमुक्तं नपुंसके ॥ १ ॥ जरमरणहरं खु मण्णए जंतु जरामरणहरं जरामरणविनाशकं इमं उपदेशं मन्यते श्रद्दधाति यत्तु यत् श्रद्धत्ते तु पुनः । तं सम्मत्तं भणियं तत्सम्यक्त्वं भणितं प्रतिपादितं । समणाणं सावयाणं पि १ अमरेऽप्युक्तं-" सारो बले स्थिरांशे न्याय्ये क्लीवं वरे त्रिषु ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org