________________
३२८
षट्प्राभूतेजं जाणइ तं णाणं यजानाति तज्ज्ञानं आत्मैव जानाति तेनात्मैव ज्ञानमित्यर्थः । “ कृत्ययुटोऽन्यत्रापि” इति वचनात् कर्तरि युट् । जं पिच्छइ तं च दंसणं णेयं यत्कर्तृभूतं, पश्यति तद्दर्शनं ज्ञेयं ज्ञातव्यं आत्मैव पश्यति तेन कारणेनात्मैव दर्शनं । अत्रापि पूर्ववत् कर्तरि युट् । तं चारितं भणियं परिहारो पुण्णपावाणं तच्चरित्रं भणितं प्रतिपादितं, तत्किं ? परिहारः पुण्यपापानां आत्मैव पुण्यं पापं च परिहरति तेनात्मैव चारित्रं । " पापक्रियाविरमणं चरणं किल" इति वचनात् । तथा चोक्तं
न किंचित् पापाय प्रभवति न वा पुण्यततये
प्रसिद्धेद्धां शुद्धिं समधिवसतो ध्वंसविधुरां। भवेत् पुण्यायैवाखिलमपि विशुद्धयंगमपरं
मतं पापायैवेत्युदितमवताद्वो मुनिपतेः ॥१॥ मुनिपतिरत्र विद्यानन्दी समन्तभद्रो वा मंतव्यः । अण्णं च-अन्यच्च वचनमस्तीति भगवंतो निरूपयन्ति-- तचरई सम्मत्तं तच्चग्गहणं च हवइ सण्णाणं । चारित्तं परिहारो पयंपियं जिणवरिंदेहि ॥३८॥
तत्वरुचिः सम्यक्त्वं तत्वग्रहणं च भवति संज्ञानम्।
चारित्रं परिहारः प्रजल्पितं जिनवरेन्द्रः ॥ तच्चरुई सम्मत्तं तत्वरुचिः सम्यक्त्वं तत्वानां जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षलक्षणोपलक्षितानां सप्तानां रुचिः श्रद्धा सम्यक्त्वमुच्यते । " तत्वार्थश्रद्धानं सम्यग्दर्शनं " इति वचनात् । तच्चग्गहणं च हवइ सण्णाणं तत्वानां पूर्वोक्तसप्तपदार्थानां ग्रहणं सम्यग्विज्ञानं भवति सज्ज्ञानं सम्यग्ज्ञानं । चारित्तं परिहारो चारित्रं पापक्रियापरिहरणं परिहार: सम्यक्चारित्रं भवति । पयंपियं जिणवरिंदेहि प्रजल्पितं कथितं जिनवरेन्द्रैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org