________________
wwwwwww
मोक्षप्राभृतं ।
३२७ गुणोऽपि गृह्यते । सो जिणवरेहि भणिओ स एवं गुणविशिष्ट आत्मा जिनवरैस्तीर्थकरपरमदेवैर्भणितः प्रतिपादितः । एवं गुणविशिष्टमात्मानं जाण तुमं केवलं णाणं जानीहि त्वं केवलं ज्ञानं, आत्मा खलु केवलं ज्ञानं-अभेदनयत्वात् ज्ञानमेवात्मानं जानीहि ।
रयणत्तयं पि जोई आराहइ जो हु जिणवरमएण । सो झायदि अप्पाणं परिहरदि परंण संदेहो ॥ ३६॥
रत्नत्रयमपि योगी आराधयति यः स्फुटं जिनवरमतेन ।
स ध्यायति आत्मानं परिहरति परं न सन्देहः ॥ रयणत्तयं पि जोई रत्नत्रयमपि योगी ध्यानवान् मुनिः, न केवलं गुणिनमात्मानं तद्गुणं रत्नत्रयमपीत्यपेरर्थः । आराहइ जो हु जिणवरमएण आराधयति यः संयमी हु-स्फुटं जिनवरमतेन सर्वज्ञवीतरागकथितमार्गेण । सो झायदि अप्पाणं स योगी ध्यायति चिंतयति, कं ?
आत्मानं सहजानन्दस्वभावं जीवतत्वं । चकाराद्य आत्मा तद्रत्नत्रयं यद्रत्नत्रयं स आत्मा गुणगुणिनोरभेदनयात् । परिहरदि परं णं संदेहो परिहरति परित्यजति, परं पुद्गलाद्यचेतनद्रव्यं, न सन्देहोऽत्रार्थे संशयो नास्ति ।
कह दे रयणत्तयं हवदि तं जहाकथमात्मनि रत्नत्रयं भवतीति चेत् ? तद्यथा-तदेव निरूपयति
जं जाणइ तं गाणं जं पिच्छइ तं च दंसणं णेयं । तं चारित्तं भणियं परिहारो पुण्णपावाणं ॥ ३७ ॥
यज्जानाति तज्ज्ञानं यत् पश्यति तच्च दर्शनं ज्ञेयम् । तच्चारित्रं भणितं परिहारः पुण्यपापानाम् ।।
१ न. टी. । २ आदा. ग. घ. अन्यत्र च पाठः । अस्यार्थ आत्मेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org