SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२६ षट्प्राभूतेत्तयसंजुत्तो मिथ्यात्वकंदकुद्दालः सम्यग्ज्ञानानुशीलनकुशलः सच्चरित्रपवित्रगात्रः । झाणज्झयणं सया कुणह ध्यानाध्ययनं सदा सर्वकालं कुरु त्वं हे जीव ! इति तात्पर्यार्थः ।। रयणत्तयमाराहं जीवो आराहओ मुणेयव्यो । आराहणाविहाणं तस्स फलं केवलं गाणं ॥३४॥ रत्नत्रयमाराधयन् जीव आराधको मुनितव्यः । आराधनाविधानं तस्य फलं केवलं ज्ञानम् ॥ रयणत्तयमाराहं रत्नत्रयमाराधयन् । जीवो आराहओ मुणेयवो जीव आत्मा आराधको मुनितव्यो ज्ञातव्यः । आराहणाविहाणं इदमाराधनाविधनं विधिः । तस्स फलं केवलं गाणं तस्याराधनाविधानस्य, किं फलं केवलं ज्ञानं अनन्तकेवलज्ञानमिति अनन्तचतुष्टयं । सिद्धो सुद्धो आदा सव्वण्हू सव्वलोयदरसी य । सो जिणवरेहिं भणियो जाण तुमं केवलं गाणं ॥३५॥ सिद्ध शुद्धः आत्मा सर्वज्ञः सर्वलोकदर्शी च । __ स जिनवरैः भणितः जानीहि त्वं केवलं ज्ञानम् ॥ सिद्धो सुद्धो आदा सिद्ध आत्मोपलब्धिमान् । शुद्धः कर्ममलकलंकरहितः, ईदृग्विध आत्मा अतति समयैकेन ऊर्ध्वं व्रज्यास्वभावेन त्रिभुवनाग्रं गच्छतीति आत्मा शुद्धबुबैकस्वभावः । सबण्हू सव्वलोयदरिसी य सर्वज्ञः त्रैलोक्यालोकस्वरूपज्ञायककेवलज्ञानसमुपेतः, सर्वलोकदर्शी च सर्वशब्देनालोकाकाशो लभ्यते लोकशब्देन षडूद्रव्याधारवत्रिभुवनमुच्यते तव्यं दृष्टुं अवलोकयितुं शीलमस्येति सर्वलोकदर्शी । चकार उक्तविशेषणसमुच्चयार्थः तेनानन्तवीर्यानन्तसौख्यावदादिरनन्त१ रयणत्तयमाराहं अयं पाठः क. पुस्तके नास्ति, ख. पुस्तकात् संयोजितः । २ सौख्यादादि इ. ख. पुस्तके पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy