SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२५ मोक्षप्राभृतं । जो निसि सयलह देहियहं जोग्गिउ तहिं जग्गेइ । जहि पुणु जग्गइ सयलु जगु सा निसि भणेवि सुएइ ॥१॥ इय जाणिऊण जोई ववहारं चयइ सव्वहा सव्वं । झायइ परमप्पाणं जह भणियं जिणवरिंदेण ॥ ३२ ॥ इति ज्ञात्वा योगी व्यवहारं त्यजति सर्वथा सर्वम् । ध्यायति परमात्मानं यथा भणितं जिनवरेन्द्रेण ॥ इय जाणिऊण जोई इतीदृशमर्थ ज्ञात्वा, कोऽसौ ? योगी ध्यानवान् मुनिः ।ववहारं चयइ सव्वहा सव्वं व्यवहारं त्यजति सर्वथा सर्व आत्मना सह एकलोलीभावं गते सति व्यवहारः स्वयमेव तिष्ठति । झायइ परमप्पाणं ध्यायति परमात्मानं-निजशुद्धबुद्धैकस्वभावे आत्मनि तल्लीनो भवति । जह भणियं जिणवरिंदेण यथा भणितं प्रतिपादित जिनवरेन्द्रेण प्रियकारिणीप्रियपुत्रेण श्रीवीरवर्धमानस्वामिना । पंचमहव्वयजुत्तो पंचसु समिदीसु तीसु गुत्तीसु । रयणत्तयसंजुत्तो झाणज्झयणं सया कुणह ॥ ३३॥ पञ्चमहाव्रतयुक्तः पंचसु समिनिषु तिसृषु गुप्तिषु । रत्नत्रयसयुक्तः ध्यानाध्ययन सदा कुरु॥ पंचमहव्वयजुत्तो पंचमहाव्रतयुक्तो दयावान् सत्यवादी अदत्तादानविरतः सर्वस्त्रीसोदरः वस्त्रादिपरिग्रहरहितः दिवा एकवारं प्रत्युत्पन्नं प्रासुकं भुक्तं शुद्धं शोधितं भुंजानः । पंचसु समिदीसु तीसु गुत्तीसु इर्यायां युगान्तरविलोकगमनः, आगेमोक्तभाषानिपुणः, चर्मजलस्पृष्टभो. जनपरित्यागी हिंगुसंवासितव्यंजनाभोजनः अजिनसंगघृततैलपरिहारी,दृष्टमृष्टोपकरणग्रहणनिक्षेपः, प्रासुकारुद्धभूमिमलमूत्रव्युत्सर्जनकुशलः, अपध्यानमनोनिषेधी, मौनवान् , कूर्मवत्संकोचितकरचरणादिकार्यः । रयण१ या निशा सकलानां देहिनां योगी तस्यां जागर्ति । यस्यां पुनः जागर्ति सकलं जगत् तां निशां भणित्वा स्वपिति ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy