________________
३२४
षटप्राभूते
vA
केण हं तस्मात्कारणात् केन सहाहं जल्पामि, अथवा केन कारणेन जल्पामि तेन मे मौनमेव शरणं ।
सव्वासवणिरोहेण कम्मं खवदि संचिदं । जोयत्थो जाणए जोई जिणदेवेण भासियं ॥३०॥
सांस्रवनिरोधेन मैकक्षिपयति संचितम् ।
योगस्थो जानाति योगी जिनदेवेन भाषितम् ॥ सव्वासवणिरोहेण सर्वेषामास्रवाणां मिथ्यात्वाविरतिप्रमादकषाययोगलक्षणानां निरोधेन निषेधेन । कम्मं खवदि संचिदं कर्म क्षिपयति पूर्वोपार्जितं तडागेऽभिनवजलप्रवेशाभावे संचितपूर्वजलशोषवत् । जोयत्थो जाणए जोई योगस्थः ध्यानस्थित आत्मैकलोलीभावमिलितो जानाति केवलज्ञानमुत्पादयति योगी शुक्लध्यानविशेषागमभाषया केवली भवति । जिणदेवेण भासियं सिद्धार्थनृपनन्दनेन वीरेण कथितमिति भावः ।
जो सुत्तो ववहारे सो जोई जग्गए सकजम्मि । जो जग्गदि ववहारे सो सुत्तो अप्पणे कज्जे ॥३१॥
यः सुप्तो व्यवहारे स योगी जागर्ति स्वकार्ये ।-..
यो जागर्ति व्यवहारे स सुप्त आत्मनः कार्ये ॥ जो सुत्तो ववहारे यो मुनिः सुप्तः, के ? व्यवहारे व्यवहारमध्ये न पतितः । सो जोई जग्गए सकजम्मि स योगी जागर्ति सावधानो भवति, स्वकार्ये आत्मकार्ये कर्मक्षयविधाने । जो जग्गदि ववहारे यो योगी जागर्ति सावधानो भवति, क ? व्यवहारे लोकोपचारे । सो सुत्तो अप्पणे कज्जे स योगी मुनिः सुप्तो न वेदयतेऽसावधानो भवति आत्मनः कार्ये आत्मस्वरूपे । उक्तं च---
: १ सर्वेषामात्रवाणामिति पाठः क. पुस्तके नास्ति । ख. पुस्तकात् संयोजितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org