________________
मोक्षप्राभृतं ।
३२३ मिच्छत्तं अण्णाणं पावं पुण्णं चएवि तिविहेण। मोणव्वएण जोई जोयत्थो जोयए अप्पा ॥ २८ ॥
मिथ्यात्वमज्ञानं पापं पुण्यं च त्यक्त्वा त्रिवेधेन ।
मौनव्रतेन योगी योगस्थो द्योतयति आत्मानम् ॥ मिच्छत्तं अण्णाणं मिथ्यात्वं बौद्धवैशेषिकचार्वाककणभक्षकापिलभट्टवेदान्तप्राभाकरश्वेतपटगौपुच्छिकयापनीयद्रामिलनिष्पिच्छाद्यनेकैकान्ताद्याश्रितमतं, अज्ञानं मस्करपूरणमतं । पावं पुण्णं चएवि तिविहेण पापं पंचप्रकारं प्राणातिपातानृतचौर्यमैथुनपरिग्रहरात्रिभोजनादिकं सप्तव्यसनादिलक्षणं च, पुण्यं शुभपुद्गलग्रहणलक्षणं स्वदुःखसहनं इत्यादिकं त्यक्त्वा परिहृत्य त्रिविधेन मनोवचनकाययोगप्रकारेण । मोणव्वएण जोई मौनव्रतेन वाग्व्यापाररहिततया योगी दिगम्बरः । जोयत्थो योगस्थितः शुद्धोपयोगतल्लीनः । द्योतयति ध्यायत्यात्मानं शरीरप्रमाणं निजजीवस्वरूपं । कथं मौनेन तिष्ठतीति प्राकृतवक्त्रमोहजं मया दिस्सदे रूवं तण्ण जाणादि सव्वहा । जाणगं दिस्सदे णंतं तम्हा जपेमि केण हं ॥ २९॥ _यन्मया दृश्यते रूपं तत्र जानाति सर्वथा।
ज्ञायको दृश्यतेऽनन्तः तस्माज्जल्पामि केनाहम् ॥ जं मया दिस्सदे रूवं यन्मया दृश्यते रूपं यद्रूपं स्त्रीप्रभतिशरीरादिकं दृश्यतेऽवलोक्यते रूपं रूपिपदार्थ तत् सर्वं पुद्गलद्रव्यपर्यायत्वात्परमार्थतोऽचेतनं । तण्ण जाणादि सव्वहा तद्रूपं सर्वथा निश्चयनयेन न जानाति, अचेतनेन सह कथं जल्पामि । जाणगं दिस्सदे णंतं ज्ञायकमात्मानं रूपाश्रितं वस्तु, अनन्तमात्मतत्वमनन्तकेवज्ञानस्वभावस्वादनन्तं यदहं तेन सह जल्पामि स तु जानात्येवात्मा । तम्हा जंपेमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org