________________
३२२
षट्प्राभूते
गारवं च शब्दगारवं-अहं वर्णोच्चारं रुचिरं जानामि न त्वेते यतयः, ऋद्धिगारवं-शिष्यादिसामग्री मम बव्ही वर्तते न त्वमीषां यतीनां, सातगारवं-अहं यतिरपि सन् इन्द्रत्वसुखं चक्रिसुखं तीर्थकरसुखं भुंजानो वर्ते न विमे यतयस्तपस्विनो वराकाः । मदा अष्ट-अहं ज्ञानवान् सकलशास्त्रज्ञो वर्ते, अहं मान्यो महामंडलेश्वरा मत्पादसेवकाः । कुलमपि मम पितृपक्षोऽतीवोज्वलः कोऽपि ब्रह्महत्या-ऋषिहत्यादिभिरदोषं । जाति:मम माता संघस्य पत्युर्दुहिता-शीलेन सुलोचना-सीता-अनन्तमती-चन्दनादिका वर्तते । बलं-अहं सहस्रभटो लक्षभटः कोटीभटः । ऋद्धिः-ममानेकलक्षकोटिगणनं धनमासीत् तदपि मया त्यक्तं अन्ये मुनयोऽधमर्णाः संतो दीक्षां जगृहुः । तपः-अहं सिंहनिष्क्रीडित. विमानपंक्तिसर्वतोभद्रशातकुंभसिंहविक्रमत्रिलोकसारवज्रमध्योल्लीणोल्लीणमृदंगमध्यधर्मचक्रवालरुद्रोत्तरवसंतमेरुनन्दीश्वरपंक्तिपल्यविधानादिमहातपोविधिविधाता मम जन्मैवं तपः कुर्वतो गते, एते तु यतयो नित्यभोजनरताः । वपुः-ममरूपाने कामदेवोऽपि दासत्वं करोतीत्यष्टमदाः । रागश्च प्रीतिलक्षणः । द्वेषश्चाप्रीतिलक्षणः । व्यामोहं पुत्र कलत्रमित्रादिस्नेहः । वामानां स्त्रीणां वा ओहो वामौहः तत्तथोक्तं समाहारो द्वन्द्वः । लोयववहारविरदो धर्मोपदेशादिकमपि न करोति लोकव्यवहारविरतः । अप्पा झाएइ झाणत्थो आत्मानं, ध्यायति चिन्तयति, झाणत्थो" उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात्" इत्युक्तलक्षणे ध्याने तीष्ठतांति ध्यानस्थः । “ स्थैश्च ” इति कप्रत्ययप्रयोगत्वात् ध्यानस्थ उच्यते ।
१ अधर्माणः ख. । २ स्नेहं. ख. । ३ ओघो वामौहः क.। ४ जैनेन्द्रस्येदं सूत्रं परिज्ञायते । अस्य स्थाने स्थः कः इति शाकटायनीयं सूत्रं ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org