SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३२१ स्थितानां ये छायायां स्थिता अनातपे वर्तन्ते ते सुखेन तिष्ठन्ति, ये आतपे धर्मे स्थिता वर्तन्ते ते दुःखेन तिष्ठन्ति । पडिवालं ताण गुरुभेयं प्रतिपालयतां व्रतानि अनुतिष्ठतां स्वर्गो भवति तद्वरं संसारित्वेनापि ते सुखिनः । अव्रतानि प्रतिपालयतां नरके दुःखमनुभवतां अतिनिन्दितमिति महान् भेदो वर्तते । तथा चोक्तं पूज्यपादेनेष्टोपदेशग्रन्थे वरं व्रतैः पदं दैवं नाव्रतैर्बत नारकं । छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ॥१॥ जो इच्छई निस्सरिदं संसारमहण्णवस्स रुंदस्स । कम्मिधणाण डहणं सो झायइ अप्पयं सुद्धं ॥२६॥ य इच्छति निस्स रितुं संसारमहार्णवस्य रुंद्रस्य । कर्मेन्धनानां दहनं स ध्यायति आत्मानं शुद्धम् ॥ जो इच्छइ निस्सरिदं यो मुनिवर इच्छति अभिलषति, किं कर्तुं ? नि:सरितुं पारं यातुं । कस्य, संसारमहण्णवस्स रुंदस्स संसारमहार्णवस्य संसारमहासमुद्रस्य । कथंभूतस्य, रुन्द्रस्य अतिविस्तीर्णस्य । कम्मिधणाण डहणं कर्मेन्धनानां दहनं कर्मकाष्ठानां भस्मीकरणं । सो झायइ अप्पयं सुद्धं स मुनिया॑यति चिन्तयति, आत्मानं शुद्धं कर्ममलकलंकरहितं रागद्वेषमोहादिविभाववर्जितमिति शेषः । . सव्वे कसाय मोत्तुं गारवमयरायदोसवामोहं । लोयववहारविरदो अप्पा झाएइ झाणत्थो ॥ २७ ॥ सर्वान् कषायान् मुक्त्वा गारवमदरागद्वेषव्यामोहम् । लोकव्यवहारविरत आत्मानं ध्यायति ध्यानस्थः ॥ सव्वे कसाय मोत्तुं सर्वान् कषायान् क्रोधमानमायालोभान मुक्त्वा परित्यज्य क्षीणकषायो मुनिर्भूत्वा । गारवमयरायदोसवामोहं षट् २१ Jain Education International Phar For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy