________________
मोक्षप्राभृतं ।
३१७
दुष्टाष्टकर्मरहितं अनुपमं ज्ञानविग्रहं नित्यम् ।
शुद्धं जिनैः कथितं आत्मा भवति स्वद्रव्यम् ॥ दुदृढकम्मरहियं दुष्टाष्टकर्मरहितं दुष्टानि पापिष्ठानि यानि अष्टकर्माणि दुर्गतिसंपातहेतुत्वात् तै रहितं वर्जितं । अणोवमं णाणविग्गहं णिचं अनुपम उपमारहित, ज्ञानविग्रहं ज्ञानशरीरं केवल ज्ञानमयं, नित्यं शाश्वतं अविनश्वरं । सुद्धं जिणेहि कहियं शुद्धं निष्केवलं कर्ममलकलङ्करहितं रागद्वेषमोहादिविभावपरिणामविवर्जितं, जिनैः सर्वज्ञवीतरागैः, कथितं--आगमे प्रतिपादितं । अप्पाणं हवदि सद्दव्यं आत्मा भवति स्वद्रव्यं आत्मरूपं स्वद्रव्यं निजद्रव्यं ज्ञातव्यमिति ।
जे झायंति सदव्वं परदव्वपरम्मुहा दु सुचरित्ता । ते जिणवराण मग्गं अणुलग्गा लहदि णिव्वाणं ।। १९ ॥ ये ध्यायन्ति स्वद्रव्यं परद्रव्यपराङ्मुखास्तु सुचरित्राः ।
ते जिनवराणां मार्गमनुलग्ना लभन्ते निर्वाणम् ॥ जे झायंति सदव्वं ये मुनयो ध्यायन्ति चिन्तयन्ति स्वद्रव्यं आत्मतत्वं । परदव्वपरम्मुहा दु सुचरित्ता परद्रव्यात् परान्मुखाः परद्रव्ये शरीरादौ रागरहिताः, तु पुनः, सुचरित्रा: शोभनं चारित्रं अनतिचारचारित्रसहिताः । ते जिणवराण मग्गं अणुलग्गा ते मुन्यो, जिनवराणां सर्वज्ञवीतरागाणां, मार्ग रत्नत्रयलक्षणं, अनुलग्नाः पृष्टतो लग्ना भवन्ति-जिनमार्गाराधका भवन्ति । लहदि णिव्वाणं निर्वाणमनन्तसुखं परममोक्षं लभन्ते प्राप्नुवन्ति ।
जिणवरमएण जोई झाणे झाएइ सुद्धमप्पाणं । जेण लहइ णिव्वाणं ण लहइ किं तेण सुरलोयं ॥२०॥
१ हि. टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org