SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ wwmummmmmmmmm षट्प्राभूतेपरदव्वादो दुगई परद्रव्यादुर्गतिः परमात्मध्यानं परिहृत्य परदव्ये परिणमनान्नरकादिषु चतसृषु गतिषु पतनं हे जीव ! तव भवति । सद्दव्वादो सुग्गई हवइ स्वद्रव्यादात्मद्रव्ये एकलोलीभावात् सम्य श्रद्धानज्ञानानुचरणात् सुगतिर्भवति मुक्तिर्भवति । इय णाऊण सदव्वे इति ज्ञात्वा ईदृशमर्थ परिज्ञाय स्वद्रव्ये आत्मतत्वे । कुणह रई विरइ इयरम्मि कुरुत यूयं रतिं भावनां, विरतिं विरमणं, इतरस्मिन् परद्रव्ये, मा रज्यत यूमिति । तं परदव्वं सद्दव्वं च केरिसं हवदि । तं जहा तत्परद्रव्यं स्वद्रव्यं च कीदृशं भवति । तद्यथा-तदेव निरूपयंत्याचार्या:--- आदसहावादण्णं सच्चिताचित्तमिस्सियं हवदि। तं परदव्वं भणियं अवितत्थं सव्वदरसीहि ॥ १७ ॥ आत्मस्वभादन्यत् सचित्ताचित्तमिश्रितं भवति। तत् परद्रव्यं भणितं-अवितथं सर्वदर्शिभिः ॥ आदसहावादणं आत्मस्वभावादन्यत् पुद्गलादिद्रव्यं । सच्चित्ताचित्तमिस्सियं हवदि सचित्तं विद्यमानचेतनं इष्टवैनितादिकं, अचित्तं अचेतनं धनकनकवसनादिकं, मिश्रितं आभरणवस्त्रादिसंयुक्तं कलत्रादिकं भवति । तं परदव्वं भणियं तत्परद्रव्यं भणितं-आगमे प्रतिपादितं । अवितत्थं सव्वदरिसीहिं अवितथं सत्यरूपं सर्वदर्शिभिः श्रीमद्भगवदर्हत्सर्वज्ञवीतरागैरिति शेषः ! दुहकम्मरहियं अणोवमं णाणविग्गहं णिच्चं । सुद्धं जिणेहि कहियं अप्पाणं हेवदि सद्दव्वं ॥१८॥ १ भवदि मूलगाथा पाठः। हवइ अन्यत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy