SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१८ षट्प्राभृतेजितवरमतेन योगी ध्याने ध्यायति शुद्धमात्मानम् । येन लभते निर्वाणं न लभते किं तेन सुरलोकम् ॥ जिणवरमएण जोई जिनवरमतेन जिनशासनेन सम्यक्श्रद्धानज्ञानानुभवनलक्षणेन रत्नत्रयेण योगी दिगंबरो मुनिः । झाणे झाएइ सुद्धमप्पाणं ध्याने एकाग्रचिन्तानिरोधलक्षणे, ध्यायति चिंतयति, शुद्धं रागद्वेषमोहादिरहितं कर्ममलकलंकरहितं टंकोत्कीर्णस्फटिकमणिबिंबसदृशं ज्ञायकैकस्वभावं चिच्चमत्कारस्वरूपं, आत्मानं निजात्मतत्वं । जेण लहइ णिव्वाणं येनात्मध्यानेन लभते निर्वाणं सर्वकर्मक्षयलक्षणमोक्षमनन्तसौख्यं । ण लहइ किं तेण सुरलोयं तेनात्मध्यानेन न लभते किं न प्राप्नोति सुरलोकं स्वर्गभोगं । तथा चोक्तं तृष्णा भोगेषु चेद्भिक्षो ! सहस्वाल्पं स्वरेव ते। प्रतीक्ष्य पाकं किं पीत्वा पेयां भुक्तिं विनाशयेः ॥ १ ॥ जो जाइ जोयणसयं दियहेणेक्केण लेवि गुरुभारं । सो किं कोसद्धं पि हु ण सक्कए जाहु भुवणयले ॥ २१ ॥ यो याति योजनशतं दिनेनैकेन लात्वा गुरुभारम् । स किं क्रोशाधमपि हु न शक्यते यातुं भुवनतले ॥ जो जाइ जोयणसयं यो याति यः पुमान् याति गच्छति, किं ? योजनशतं सहस्रयोजनदशमभागं । दियहेणेकेण लेवि गुरुभारं दिवसेनैकेन लेवि-लात्वा गृहीत्वा, कं ? गुरुभारं महाभारं । सो किं कोसद्धं पि हु स पुमान् (किं) क्रोशार्धमपि हु-स्फुटं। णे सकए जाह भुवणयले न शक्रोति न समर्थो भवति यातुं भुवनतले पृथिवीमण्डले अपि तु गव्यूतिचतुर्थमंशं यातुं शक्नोत्येव । १ पेयं पाठान्तरं । २ न. टी. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy