________________
मोक्षप्राभृतं ।
३१३ लोलीभावः । जोई सो लहइ णिव्वाणं य एवं विधो योगी शुद्धोपयोगरतो मुनिः स लभते निर्वाणं, सर्वकर्मक्षयलक्षणोपलक्षितं मोक्षं लभते प्राप्नोति । अथवा जोईसो-योगो ध्यानं विद्यते यस्य स योगी योगिनामीशो योगीश इत्यनेन गृहस्थस्य स्त्रियाः परलिंगे च मुक्तिर्न भवतीति सूचितं ज्ञातव्यं । उक्तं च
साम्यं स्वास्थ्यं समाधिश्च योगश्चिन्तानिरोधनम् । शुद्धोपयोग इत्येते भवन्त्येकार्थवाचकाः ॥१॥ कथं गृहस्थस्य मुक्तिर्न भवतीति चेत् ?-- खण्डनी पेषणी चुल्ली उदकुंभः प्रमार्जनी। पंच सूना गृहस्थस्य तेन मोक्षं न गच्छति ॥१॥ तथा स्त्रीणामपि मुक्तिर्न भवति महाव्रताभावात् । तदपि कस्मान्न भवति ? कक्षयोः स्तनयोरन्तरे नाभौ योनौ च जीवानामुत्पत्तिविनाशलक्षणहिंसासद्भावात् , निःशंकत्वाभावात् , वस्त्रपरिग्रहात्यजनात्, अहमिन्द्रपदमपि न लभन्ते कथं निर्वाणमिति हेतोश्च । यदि च स्त्रियो मुक्ता भवन्ति तर्हि तत्पर्यायमूर्तयः कथं न पूज्यन्ते । सर्वथा दुर्मतं विहाय पुरुषस्यैव मुक्तिर्मन्तव्येति भावः । परलिंगे च मुक्तिर्न भवति मिथ्यात्वदूषितत्वात्, दण्डकमण्डलुमृगचर्मकर्माशर्मकारणात् । तद्विस्तरेण प्रमेयकमलमार्तण्डादिषु शास्त्रेषु ज्ञातव्यं । सजातिज्ञापनार्थ स्त्रीणां महाव्रतान्युपर्यन्ते न परमार्थतस्तासां महाव्रतानि सन्ति तेन मुनिजनस्य स्त्रियाश्च परस्परं वन्दनापि न युक्ता । यदि ता वन्दन्ते तदा मुाना भिर्नमोऽस्त्विति न वक्तव्यं, किं तर्हि वक्तव्यं ? समाधिकर्मक्षयोऽास्त्वति । ये तु परस्परं मत्थएण वदामीति आर्याः प्रतिवन्दन्ति तेऽप्यसंयमिनो ज्ञातव्याः । दिगम्बराणां मते या नीतिः कृता सा प्रमाणमिति मन्तव्यं । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org