________________
षट्प्राभृते
वरिसंसयदिक्खियाए अजाए अज दिक्खिओ साहू | अभिगमण वंदण नसंसणेण विणण सो पुज्जो ॥ १ ॥ इति गाथा अप्रमाणं भवति यदि स्त्रीणां मुक्ति: स्यात् ।
३१४
परदव्वरओ बज्झइ विरओ मुचे विविहकम्मे हि । एसो जिउवएसो समासओ बंधमोक्खस्स ॥ १३ ॥
परद्रव्यरतः बध्यते विरतः मुञ्चति विविधकर्मभिः । एष जिनोपदेशः ः समासतः बन्धमोक्षस्य ॥
"
परदव्वरओ बज्झइ परद्रव्यं शरीरादिकं तत्र रतो बध्यते बन्धनं प्राप्नोति चौरवत् यथा चौरः परद्रव्यं चोरयन् पुमान् राजला कैर्बध्यते यो न परद्रव्यं चोरयति स न बध्यते । विरओ मुच्चेर विविहक - मेहि विरतः परद्रव्यपरान्मुखः पुमान् मुच्यते - मुक्तो भवति विविधैर्नानाप्रकारैः कर्मभिर्ज्ञानावरणादिभिः । एसो जिणउवएसो ऐष जिनोपदेशः । समासओ बंधमोक्खस्स समासतः संक्षेपात् बन्धमोक्षस्य बन्धेनोपलक्षितो मोक्षो बन्धमोक्षः तस्य बन्धमोक्षस्य । अथवा बन्धश्च मोक्षश्च बन्धमोक्षं समाहारद्वन्द्वस्तस्य ।
सव्वरओ सवणो सम्माहट्टी हवेइ नियमेण | सम्मत्तपरिणदो उण खवेइ दुदृट्टकम्माणि ॥ १४ ॥
स्वद्रव्यरतः श्रमण: सम्यग्दृष्टिर्भवति नियमेन 1 सम्यक्त्वपरिणतः पुनः क्षिपते दुष्टाष्टकर्माणि ॥
१ वर्षशतदीक्षितया आर्यया अद्य दीक्षितः साधुः । अभिगमनेन वन्दनया नमस्कारेण विनयेन स पूज्यः ॥
२ अस्य स्थाने एषो जिनोपदेश इति क पुस्तके । ख. पुस्तके तु एष जिनोपदेश इति । अनेनैव पाठेन भवितव्यं लक्षणशास्त्राविरुद्धत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org