________________
३१२
षट्प्राभृते
वासितः सन् । मोहोदएण पुणरवि मोहोदयेन मिथ्यामोहस्य त्रिवि - धस्योदयेन विपाकेन, पुनरपि भूयोऽपि । अंग सं मण्णए मणुओ अंगं शरीरं, स्वमात्मानं मन्यते जानाति, मनुजो मनुष्यो मिथ्यादृष्टिजीव इत्यर्थः ।
"
जो देहे णिरवेक्खो गिंदो निम्ममो निरारम्भो । आदसहावे सुरओ जोई सो लहइ णिव्वाणं ॥ १२ ॥
यो देहे निरपेक्षः निर्द्वन्द्वः निर्ममः निरारम्भः । आत्मस्वभावे सुरतः योगी स लभते निर्वाणम् ॥
जो देहे णिरवेक्खो यो योगी देहे शरीरे निरपेक्ष उदासीनो ममत्वेन च्युतः । णिहंदो निम्ममो निरारंभो निर्द्वन्द्वो निष्कलहः केनापि सह कलहरहित: । अथवा निर्द्वन्द्वो निर्युग्मः स्त्रीभोगरहितः " द्वन्द्वं कलहयुग्मयोः " इति वचनात् । निर्ममो ममत्व रहितः, ममेति अदन्तो ऽव्ययशब्दः निर्गतं ममेति परिणामो यस्येति निर्ममः । उक्तं चअ कंचनोऽहमित्यास्वं त्रैलोक्याधिपतिर्भवेः । योगिगम्यं तव प्रोक्तं रहस्यं परमात्मनः ॥ १ ॥ निरारंभ: सेवाकृषिवाणिज्यादिकर्मरहितः । उक्तं च-
औरंभे णत्थि दया महिलासंगएण णासए बंभं । संकाए सम्मत्तं पव्वज्जा अत्थगहणेण ॥ १ ॥ आदसहावे सुरओ आत्मस्वभावे टंकोत्कीर्णज्ञाय कैकस्वभावचिच्चमत्कारलक्षणनिजशुद्धबुद्धैकपरिणामे जीवतत्वे सुष्ठु - अतिशयेन रत एक
१ नि. मू. । २ नं. मू. । ३ आस्स्व इत्याच कविलाठः । ४ आरंभे नास्ति दया महिलासंगेन नाशयति ब्रह्म ।
शंकया सम्यक्त्वं प्रव्रज्या अर्थग्रहणेन ॥
५ ए. टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org