SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ AMAARRARAawww मोक्षप्राभृतं । ३११ आत्मा भिन्नस्तदनुगतिमत् कर्म भिन्नं तयोर्या प्रत्यासत्तेर्भवति विकातः सापि भिन्ना तयेव । कालक्षेत्रप्रमुखमपि यत्तच्च भिन्नं मतं मे भिन्नं भिन्नं निजगुणकलालकृतं सर्वमेतत् ॥१॥ सपरज्झवसाएणं देहेसु य अविदिदत्यमप्पाणं । सुयदाराईविसए मणुयाणं वडए मोहो ।। १०॥ स्वपराध्यवसायेन देहेषु च अविदितार्थमात्मनम् । सुतदारादिविषये मनुजानां वर्धते मोहः ।। सपरज्झवसाएणं स्वपराध्यवसायेन परवस्तुशरीरादिकं स्वमात्मानं मन्यते स्वपराध्यवसायः। केषु पदार्थेषु, देहेसु य शरीरेषु च, चकाराद्वनितादिषु च, शरीरं वनितासुतस्वापतेयादिकं वस्तु खलु परकीयं वर्तते तत्र । अविदिदत्थं अविदितार्थ यथावत्स्वरूपपरिज्ञानरहितार्थ यथा भवत्येवं वर्तमान आत्मा । अप्पाणं इति जीवः आत्मानं जानीते तच्च देहादिकं वस्तु आत्मा न भवति । तेन विपरीताभिनिवेशेन सुयदाराईविसए सुतदारादिविषये पुत्रकलत्रादिषु । मणुयाणं वड़ए मोहो मनुजानां मानवानां वर्धते मोहः-स्नेहेनाज्ञानमूलं मोहो वैचित्त्यं वृद्धि याति, मोहेन परिणतो जीवो बहिरात्मा पुनः कर्माष्टौ बध्नाति । उक्तं च जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनरन्ये। स्वयमेव परिणमन्तेऽत्र युद्गलाः कर्मनावेन ॥१॥ मिच्छाणाणेसु रओ मिच्छाभावेण भाविओ संतो । मोहोदएण पुणरवि अंगं सं मण्णए मणुओ ॥११॥ मिथ्याज्ञानेषु रतः मिथ्याभावेन भावितः सन् । ___मोहोदयेन पुनरपि अङ्गं स्वं मन्यते मनुजः ।। मिच्छाणाणेसु रओ मिथ्याज्ञानेषु रतोऽयं मनुजो जीवः । मिच्छाभावेण भाविओ संतो मिथ्यापरिणामेन कुगुरुकुदेवभत्तया भावितो Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy