SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१० षट्प्राभूतेबहिरत्थे फुरियमणो इंदियदारेण णियसरूवचुओ। णियदेहं अप्पाणं अज्झवसदि मूढदिट्टी ओ ॥ ८ ॥ बहिरर्थे स्फुरितमना इन्द्रियद्वारेण निजस्वरूपच्युतः । निजदेहं आत्मानमध्यवस्यति मूढदृष्टिस्तु ॥ बहिरत्थे फुरियमणो बहिरर्थे इष्टवनितासुतस्वापतेयादौ स्फुरितं चमत्कृतं मनो यस्य स इष्टार्थे स्फुरितमनाः । इंदियदारेण णियसखवचुओ इन्द्रियद्वारेण इन्द्रियेषु प्रविश्य, निजस्वरूपच्युत आत्मभावनायाः प्रभृष्टः । णियदेहं अप्पाणं निजदेहं स्वकीयशरीरं आत्मानमध्यवस्यसीति सम्बन्धः-शीरमात्मानं जानातीत्यर्थः । अज्झवसदि मूढदिट्टी ओ अध्यवस्यति मूढदृष्टिस्तु ममायं काय आत्मेति जानाति मूढदृष्टिर्बहिरात्मेति भावार्थः । णियदेहसरिस्सं पिच्छिऊण परविग्गहं पयत्तेण । अच्चेयणं पि गहियं झाइज्जइ परमभाएण ॥ ९॥ निजदेहसदृक्षं दृष्ट्वा परविग्रहं प्रयत्नेन । अचेतन मपि गृहीतं ध्यायते परमभागेन ॥ णियदेहसरिसं पिच्छिऊण निजदेहसदृक्षं संदृशं पिच्छिऊणदृष्ट्वा । परविग्गहं पयत्तेण परविग्रहं इष्टवनितादिशरीरं, पयत्तेण-प्रयलेन मलमूत्रशुक्ररुविरमांसकी कसचर्मरोमादिदुर्गन्धापवित्रादिपरिणामभाघेन । अचेयणं पि गहियं अचेतनमपि आत्मना गृहीतं जीवेन स्वीकृतं । झाइज्जइ परमभाएण ध्यायते शरीरस्वरूपं चिन्त्यते परमभागेन पृथक्तया भेदज्ञानेन-शरीरं भिन्नं आत्मा भिन्नो वर्तते इति भेदं कृत्वे त्यर्थः । तथा चक्तं-- १ चओ. मूले. । २ मिच्छभावेण. ग. घ. अन्यत्र च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy