SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं ! ३०९ शश्वद्भवः शाश्वतोऽविनश्वरः । सासवो - इति च क्वचित् पाठो दृश्यते तत्रायमर्थः–साशपः भक्तभव्यानां आशापूरणसमर्थ इत्यर्थः । सिद्धो सिद्धिः स्वात्मोपलब्धिर्विद्यते यस्य स सिद्ध: परमनिर्वाणपदमारूढ इत्यर्थः । तदुक्तं - तस्य त्रिविधस्यात्मनः स्त्ररूपं शास्त्रान्तरेऽपि प्रोक्तमस्तीति श्री कुन्दकुन्दाचार्या निरूपयन्ति आरुहवि अंतरप्पा बहिरप्पा छंडिऊण तिविहेण । झज्जर परमप्पा उवहं जिणवरिंदेहिं ॥ ७ ॥ आरुह्य अन्तरात्मानं बहिरात्मानं त्यक्त्वा त्रिविधेन । ध्यायते परमात्मा उपदिष्टं जिनवरेन्द्रैः ॥ 1 आरुहवि अंतरप्पा आरुह्य प्रादुर्भाव्य आश्रित्येति किं ? अंतरप्पा - अन्तरात्मानं भेदज्ञानावलम्बनं कृत्वेत्यर्थः । बहिरप्पा छंडिऊण तिविहेण त्रिविधेन मनोवचनकायैर्बहिरात्मानं त्यक्त्वा | झाइज्जइ परमप्पा ध्यायते अहर्निशं चित्यते, कोऽसौ ? परमात्मा निश्चयनयेन कर्ममलकलंकरहितः सिद्धस्वरूपः निजपरमात्मा ध्यायते अर्हत्सिद्धस्वरूपोऽबलोक्यते द्विविधमभ्यासं कुर्वाणो मुनिः परमात्मानमेव प्राप्नाति -अ - त्सिद्धसदृशो भवति । तथा चोक्तं आत्मा मनीषिभिरयं त्वदभेदबुद्धया ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नामनो विषविकारमपाकरोति ॥ १ ॥ उas जिनवरिंदेहिं उपदिष्टं प्रतिपादितं । कै:, जिनवरेन्द्रैः श्रीमद्भगवदर्हत्सर्वज्ञवीतरागैरिति शेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy