________________
३०८
षट्प्राभूते - ___ अथवा-अणिदिओ-अनिंदित इन्द्रधरणेन्द्रनरेन्द्रखगेन्द्रादीनां स्तुत्य इत्यर्थः । उक्तं च सुलोचनाकान्तेनशमिताखिलविघ्नसंस्तवस्त्वयि तुच्छोऽप्युपयात्यतुच्छतां । शुचिशुक्ति जुटेऽम्बुविधृतं ननु मुक्ताफलतां प्रपद्यते ॥१॥ घटयन्ति न विघ्नकोटयो निकटे त्वत्क्रमयोर्निवासिनां। पटवोऽपि पदं दवाग्निभिर्भयमस्त्यम्बुधिमध्यवर्तिनां ॥२॥ हृदये त्वयि सन्निधापिते रिपवः केऽपि भयं विधित्सवः। अमृताशिषु सत्सु सन्ततं विषभेदार्पितविप्लवः कुतः ॥३॥ उपयान्ति समस्तसम्पद विपदो विच्युतिमाप्नुवन्त्यलं । वृषभं वृषमार्गदेशिनं झषकेतुद्विषमायुषां ॥४॥ इत्थं भवंतमतिभक्तिपथं निनीषोः,प्रागेवबन्धकलयःप्रलयं व्रजन्ति। पश्चादनश्वरमयाचित्तमप्यवश्यं,संपत्स्यतेऽस्य विलसद्गुणभद्रभद्र।।
केवलोऽसहायः केवलज्ञानमयो वा, के परब्रह्मणि निजशुद्धबुद्धकस्वभावे आत्मनि बलमनन्तवीर्य यस्य स भवति केबल:, अथवा केवते सेवते निजात्मनि एकलोलीभावेन तिष्ठतीति केवलः । विशुद्धात्मा-विशेरेण शुद्धः कर्ममलकलंकरहित आत्मा स्वभावो यस्य स विशुद्धात्मा । परमेही परमजिणो परमेष्टी परमजिनः, परमे इन्द्रधरणेन्द्रनरेन्द्रमुनीद्रादिवंदिते पदे तिष्ठतीति परमेष्ठी पंचपरमेष्ठिरूपः, परमजिणो-परा उत्कृष्टा प्रत्यक्षलक्षणोपलक्षिता मा प्रमाणं यस्येति परमः, अथवा परेषां भव्यप्राणिनां उपकारिणी मा लक्ष्मीः समवशरणविभूतिर्यस्येति परमः, अनेकविषमभवगहनदुःखप्रापणहेतून् कर्मारातीन् जयति समूलकाषं कषतीति जिनः परमश्चासौ जिनः परमजिनः तीर्थकरपरमदेवः । सिवंकरो शिवं परममंगलं करोति शिवंकरः, अथवा शिवं मोक्षं करोति भक्तभ. यजीवानां मोक्षं विदधातीति शिवंकरः शिवतातिरपरपर्यायः । सासओ १ अस्मादग्रे तथाहि-इति पाठः ख. पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org