________________
मोक्षप्राभृतं ।
३०७ नशुद्धनिश्चयनयेन शरीरं न स्पृशति, कर्मबन्धनबद्धोऽपि सन् कर्मबन्धनैबेद्रो न भवति नलिनीदलस्थित जलवद्वितीदृशं भेदज्ञानं आत्मसंकल्प उच्यते स आत्मसंकल्पो यस्य जीवस्य वर्तते सोऽन्तरात्मा वेदितव्यः । कम्म कलंक विमुको परमप्पा भण्णए देवो कर्मकलङ्कविमुक्तो द्रव्यकर्मभावकर्म नोकर्मरहितः सिद्धपरमेश्वरो देवः परमात्मा भण्यते--अर्हन् परमेश्वर: सामान्य केवली च परमात्मा कथ्यते तस्य जीवन्मुक्तत्वात् । उक्तं च
आत्मन्नात्मविलोपनात्मचरितैरासीर्दुरात्मा चिरं
स्वात्मा स्याः परमात्मनीनचरितैरात्मकृतैरात्मनः । आत्मेत्यां परमात्मतां प्रतिपतन् प्रत्यात्मविद्यात्मकः स्वात्मोत्थात्मसुखो निषीदसि लसन्नध्यात्ममध्यात्मना ॥१॥ मलरहिओ कलचेत्तों अणिदिओ केवलो विसुद्धप्पा | परमेही परमजिणो सिवंकरो सासओ सिद्धो ॥ ६ ॥
मलरहितः कलत्यक्तः अनिन्द्रियः केवलो विशुद्धात्मा । परमेष्ठी परमजिनः शिवङ्करः शाश्वतः सिद्धः ॥
मलरहिओ कलचत्तो मलरहितः कर्ममलकलंकरहितः, कलया शरीरेण त्यक्तः कलत्यक्तः । योकारो स्त्रीकृतौ स्वौ कचित् यथा इष्टकचितं इषीकतूलमिति । अगिंदिओ केवलो विसुद्धा अनिन्द्रिय इन्द्रियज्ञानरहितः केवलज्ञानेन द्रव्यपर्यायस्वरूपं जानन्नित्यर्थः । उक्तं च पुष्पदन्तेन महाकविना
सर्व अणिदिओ णाणमओ जो मयमुदु न पत्तियइ । सो जिंदिओ पंचिदियनिरओ वइतरणिहि पाणिउ पियइ ॥ १ ॥
१ चित्तो. मू. क. । २ ई+आ इति छेदोत्र ज्ञातत्र्यः ।
३ सर्वज्ञः अनिन्द्रियः ज्ञानमयो यो मदमूहः न प्रत्येति ।
स निन्दकः पंचेन्द्रियनिरतः वैतरण्याः पानीयं पित्रति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org