SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०६ पद्माभते साक्षाद्वीक्ष्य योगी ध्यानवान् मुनिः। अव्यावाहमणतं अव्याबाधं बाधारहितं, अनन्तमविनश्वरं । अणोवमं हवइ णिव्याणं अनुपम उपमारहितं, भवते प्राप्नोति । "भूप्राप्तावात्मनेपदी" इति वचनात् । किं ? निर्वाणं शुद्धसुखं मोक्षस्थानं । उक्तं च जन्मजरामयमरणैः शके१ःखैर्भः च परिमुक्तं । निर्वणं शुद्धसुखं निःश्रेयसमिष्यते नित्यं ॥१॥ तिपयारो सो अप्पा परभितरबाहिरो दु हेऊँणं । तत्थ परो झाइज्जइ अंतोवाएण चयहि बहिरप्पा ॥४॥ त्रिप्रकारः स आत्मा परमन्तो बहिः तु हित्वा । तत्र परं ध्यायते अन्तरुपायेन त्यज बहिरात्मानम् ॥ तिपयारो सो अप्पा त्रिप्रकारः स आत्मा त्रिविधः । परभिंतरवाहिरो दु हेऊणं परमात्मा-अन्तरात्मा-बहिरात्मा चेति । तत्र बाहिरो दु हेऊणं-बहिरात्मानं हित्वा परित्यज्य । तत्थ परो झाइज्जइ तत्र परमात्मा ध्यायते । कथं परमात्मा ध्यायते ? अंतोवाएण अन्तरात्मोपायेन भेदज्ञानबलेनेत्यर्थः । चयहि बहिरप्पा त्यज्य परिहर त्वं हे मुने! बहिरप्पा-बहिरात्मानं-शरीरमेवात्मेति मतं मन्यते बहिरात्मा तमभिप्राय त्वं त्यजेति तात्पर्यार्थः ।। अक्खाणि बाहिरप्पा अंतरअप्पा हु अप्पसंकप्पो । कम्मकलंकविमुको परमप्पा भण्णए देवो ॥५॥ अक्षाणि बहिरात्मा अन्तरात्मा स्फुटं आत्मसङ्कल्पः । कर्मकलङ्कविमुक्तः परमात्मा भण्यते देवः ॥ अक्खाणि बाहिरप्पा अक्षाणि इंद्रियाणि बहिरात्मा भवति अंतरअप्पा हु अप्पसंकप्पो अन्तरात्मा हु-स्फुटं आत्मसंकल्पः शरी. रकर्मरागद्वेषमोहादिदुःखपरिणामरहितोऽयं ममात्मा वर्तते शरीरे तिष्ठ. १ मंतर. घ । २ देहीण. घ. मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy