SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३०५ __णमिऊण य तं देवं नत्वा च तं देवं सर्वज्ञवीतरागं । कथंभूतं देवं, अणंतवरणाणदंसणं सुद्धं अनन्तवरज्ञानदर्शनं शुद्धं अनन्तज्ञानमनन्तदर्शनमनन्तवीर्यमनन्तसौख्यमित्यर्थः, शुद्धं घातिकर्मसंघातनेन निर्मलस्वरूपं अष्टादशदोषरहितमित्यर्थः । वोच्छं परमप्पाणं वक्ष्यामि कथयिष्यामि । कः कर्ता ? अहं श्रीकुन्दकुन्दाचार्यः, कं वक्ष्ये ? परमात्मानं शुद्धनयेन परमात्मानं अर्हत्सिद्धसमानं । कथंभूतं परमात्मानं, परमपयं परमपदं परमं उत्कृष्टं इन्द्रादिदेव-नरेन्द्रादिमानव-गणधरादिमहामुनीश्वरसंयुक्तसमवशरणस्थानमण्डितं । अथ केषां परमात्मानं वक्ष्यामि ? परमजोईणं परमयोगिनां दिगम्बरगुरूणां । इत्यनेन मुनीनामेव परमास्मध्यानं घटते। तप्तलोहगोलकसमानगृहिणां परमात्मध्यानं न संगच्छते । तेषां दानपूजापर्वोपवाससम्यक्त्वप्रतिपालनशीलवतरक्षणादिकं गृहस्थधर्म एवोपदिष्टं भवतीति भावार्थः । ये गृहस्था अपि सन्तो मनागात्मभावनामासाद्य वयं ध्यानिन इति ब्रुवते ते जिनधर्मविराधका मिथ्यादृष्टयो ज्ञातव्याः । अयत्याचारा गृहस्थधर्मादपि पतिता उभयभ्रटा वेदितव्याः। ते लौंकाः, तन्नामग्रहणं तन्मुखदर्शनं प्रभातकाले न कर्तव्यं इष्टवस्तुभोजनादिविघ्नहेतुत्वात् । ते जिनस्नपनपूजादानादिसद्धर्मघातका ज्ञातव्याः । जं जाणिऊण जोई जो अंत्यो जोइऊण अणवरयं । अव्वावाहमणंतं अणोवमं हवई णिव्वाणं ॥३॥ यदज्ञात्वा योगी यमर्थं दृष्ट्वाऽनवरतम् । __ अव्यावाधमनन्तं अनुपमं भवते निर्वाणम् ॥ जं जाणिऊण जोई यं अर्थ आत्मतत्वं ज्ञात्वा हे योगिन् ! जो अत्थो जोइऊण अणवरयं (1) अर्थ तत्वं, जोइऊण-दृष्ट्वा ज्ञानेन १ जोयत्थो ग. । योगस्थो ध्यानस्थ इत्यर्थः । २ लहइ. ग. । षद० २० Jain Education International For Private & Personal Use Only www.jainelibrary.org www
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy