SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ५ः० अथ देवेन्द्रयशोगुरुविद्यानन्दीश्वरस्य शिष्येण । मुक्तिप्रियामुखाम्बुजदिदृक्षुणा शिक्षितेन गुणे ॥ १ ॥ श्रुतसागरेण कविना विनापि बुद्धया विरच्यते रुचिदा । मोक्षप्राभृतविवृतिष्टीकाऽलीकप्रमुक्तेन ॥ २ ॥ याचकजनकल्पतरुः स्वरुरपि मिथ्यामताद्रिशृङ्गेषु । भव्यजनजनकतुल्यो विवेकवान् मल्लिभूषणो जयति ॥ ३ ॥ गीति । णाणमयं अप्पाणं उवलद्धं जेण झडियकम्मेण । चऊण य परदव्वं णमो णमो तस्स देव्वस्स ॥ १ ॥ ज्ञानमय आत्मा उपलब्धो येन क्षरितकर्मणा । त्यक्त्वा च परद्रव्यं नमो नमस्तस्मै देवाय || णाणमयं अप्पाणं ज्ञानमय आत्मा । उवलद्धं जेण· झडियकम्मेण उपलब्धो येन क्षरितकर्मणा । चइऊण य परदव्वं त्यक्त्वा च परद्रव्यं शरीरं कर्म च परित्यज्य नमो नमः - पुनः पुनर्नमः । तस्य देवस्य - तस्मै देवायेति भावार्थ: । णमिऊण य तं देवं अनंतवरणाणदंसणं सुद्धं । वोच्छं परमप्पाणं परमपयं परमजोईणं ॥ २ ॥ नत्वा च तं देवं अनन्तवरज्ञानदर्शनं शुद्धम् । वक्ष्ये परमात्मानं परमपदं परमयोगिनाम् ॥ १ व्हादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः । शतकोटि : : स्वरुः शम्बो दंभोलिरशनिर्द्वयोः ॥ २ अस्माद ॐ नमः सिद्धेभ्यः इति पाठः । ख. पुस्तके तु नास्ति । ३ वुच्छं. क्वचित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy