SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०३ भावप्राभृतं । इय भावपाहुडमिणं सव्वं बुद्धेहि देसियं सम्म । जो पढइ सुणइ भावइ सो पावइ अविचलं ठाणं॥१६३॥ इति भावप्राभृत मिदं सर्वं बुद्धैः देशितं सम्यक् । यः पठति शृणोति भावयति स प्राप्नोति अविचलं स्थानम् ॥ इय भावपाइडमिणं इति-एवं प्रकारं, भावप्राभतमिदं भावनाभूतनाम शास्त्रं । सव्वं बुद्धेहि देसियं सम्मं सर्वं बुद्धैः सर्वज्ञैः, देशितं कथितं सम्यनिश्चयन। यथा मया कथितं सर्वं बुद्धरप्येवमेवोक्तमिति भावार्थः । जो पढइ सुणइ भावइ य आसन्नभव्यो जोवः पठति गुर्वग्रेऽनुशीलयति अभ्यस्यति, सुणेइ-एतदर्थमाकर्णयति, भावइ-श्रुत्वा श्रद्दधाति । सो पावइ अविचलं ठाणं स आसन्नभव्यो मुनिपुंगवः, प्राप्नोति लभते, अविचलं निश्चलं, स्थानं मोक्षपदमिति सिद्धम् । इति श्रीपद्मनन्दिकुन्दकुन्दाचार्यवक्रग्रीवाचायलाचार्यगृध्रपिच्छाचार्यनामपंचकविराजितेन श्रीसीमन्धरस्वामिसम्यग्बोधसंबोधितभव्यजनेन श्रीजिनचन्द्रसूरिभट्टारकपट्टाभरणभूतेन कलिकालसर्वज्ञेन विरचिते षदप्राभृतभावनाग्रन्थे सर्वमुनिमण्डलीमण्डितेन कलिकालगौतमस्वामिना श्रीमल्लिभूषणेन भट्टारकेणानुमतेन सकलविद्वज्जनसमाजसम्मानितेनोभयभाषाकविचक्रवर्तिना श्रीविद्यानन्दिगुर्वन्तेवासिना श्रीदेवेन्द्रकीर्तिप्रशिष्येण सूरिवरश्रीश्रुतसागरेण विरचिता भावप्राभृतटीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy