________________
३०२
षट्प्राभतं
णिचा। सिद्धा मुक्तिस्त्रीवल्लभाः, शुद्धाः कर्ममलकलंकरहिताः, निरंजना निरुपलेपाः, नित्याः शाश्वताः । दिंतु वरभावसुद्धिं ददतु प्रयच्छन्तु, वरभावशुद्धिं विशिष्टपरिणामशुद्धिं । कस्मिन् , दंसणणाणे चरित्ते य सम्यग्दर्शने सम्यग्ज्ञाने सम्यक्चारित्रे चेत्यर्थः । किं जंपिएण बहुणा अत्थो धम्मो य काममोक्खो य । अण्णे वि अ वावारा भावम्मि परिडिया सव्वे ॥ १६२ ॥
किं जल्पितेन बहुना अर्थो धर्मश्च काममोक्षश्च ।
अन्येपि च व्यापारा भावे परिस्थिताः सर्वे ॥ किंजंपिएण बहुणा बहुना प्रचुरतरेण, जल्पितेन किं ? न किमपि । अत्थो धम्मो य काममोक्खो य अर्थो धनं, धर्मो यतिश्रावकगोचरः, काम: पंचेंद्रियसुखदायिनी इष्टवनिता तस्या भोगः, मोक्षः सर्वकर्मक्षयलक्षणः । अण्णे वि अ वावारा अन्येऽपि च व्यापारा विद्यादेवता. साधनादयः । भावम्मि परिहिया सव्वे भावे शुद्धपरिणामे परिस्थिता भावाधीना भवन्तीति भावार्थः । उक्तं च
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये.. भावेषु विद्यते देवस्तस्माद्भावो हि कारणं ॥ १ ॥ भावविहूणउ जीव तुहं जइ जिणु वहहि सिरेण । पत्थरि कमलु किं निप्पजइ जइ सिंचहि अमिएण ॥२॥ सीसु नमंतह कवणु गुणु भाउ कुसुद्धउ जाहं । पारद्धीदूणउ नमइ दुकंतउ हरिणाहं ॥३॥ अन्नन्नपि भवत् पापी निघ्नन्नपि न पापभाक् । परिणामविशेषेण यथा धीवरकर्षकौ ॥४॥
१ भावविहीनः जीव ! त्वं यदि जिनं वहति शिरसा ।
प्रस्तरे किं कमलं निष्पद्यते यदि सिंचेत् अमृतेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org