SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । ३०१ mmmmmmmmmmmm चक्कहररामकेसवसुरवरजिणगणहराइसोक्खाई चक्रधराश्च भरतादयः सकलचक्रवर्तिनः, रामाश्च बलदेवाः, केशवाश्चार्धचक्रवर्तिनः, सुरवराश्च सौधर्मेन्द्राद्यच्युतेन्द्रपर्यन्ता अहमिन्द्रान्ताः, जिनाश्च वृषभादिवीरान्ताः, गणधरादयश्च वृषभसेनादयः श्रीगौतमान्तास्तेषां सौख्यानि महापुराणादिशास्त्रवर्णितानि । चारणमुणिरिद्धीओ चारणमुनीनां आकाशगामिनामृषीणां ऋद्धी: अक्षीणमहानसालयप्रभतीः। विशुद्धभावा नरा जीवाः प्राप्ता लभन्ते स्म ।। सिवमजरामरलिंगमणोवममुत्तंमपरमविमलमतुलं । पत्ता वरसिद्धिसुहं जिणभावणभाविया जीवा ॥१६०॥ शिवमजरामरलिङ्गमनुपममुत्तमं परमविमलमतुलम् । प्राप्ता वरसिद्धिसुखं जिनभावनाभाविता जीवाः ॥ शिवमजरामरलिंगं शिवं परमकल्याणं परममंगलभूतं कर्ममलकलंकरहितत्वात् , अजरामरलिंगं जरामरणरहितचिन्हं । अणोवमं उपमारहितं । उत्तमं परममुख्यं । परमविमलं द्रव्यकर्मभावकर्मनोकर्मरहितं । अतुलं अनन्तमित्यर्थः । पत्ता वरसिद्धिसुहं एतद्विशेषणविशिष्टं वरं श्रेष्टं सिद्धिसुखं परमनिर्वाणसौख्यं प्राप्ता लभन्त स्म । जिणभावणभाविया जीवा जिवभावनया निर्मलसम्यक्त्वेन भाविता वासिता जीवा आसन्नभव्याः । ते मे तिहुवणमाया सिद्धा सुद्धा णिरंजणा णिचा । दितु वरभावसुद्धिं दंसणणाणे चरित्ते य ॥ १६१ ॥ ते मे त्रिभुवनमहिताः सिद्धाः शुद्धा निरंजना नित्याः । ददतु वरभावशुद्धिं दर्शनज्ञाने चारित्रे च ॥ ते मे तिवणमहिया ते जगप्रसिद्धाः, म. मम श्रीकुन्दकुन्दाचार्यस्य, त्रिभुवनमहितास्त्रैलोक्यपूजिताः। सिद्भा सद्धा णिरंजणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy