SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०० षट्प्राभृतेराजमान्यश्रावकादिभिरभिमानः । मुक्का जे करुणभावसंजुत्ता पूर्वोक्तैर्मोहादिभिर्ये मुक्ताः, करुणभावः कारुण्यं दयापरिणामस्तेन संयुक्ताः । ते सव्वदुरियखंभं ते मुनयः सर्वदुरितस्तंभं समस्तमलातिचारादिसमुत्पन्नं पापस्तंभं । हणंति चारित्तखग्गेण प्नन्ति चारित्रखङ्गेन च्छिन्दन्ति निननिर्मलसद्वृत्तनिस्त्रिंशेनेति शेषः । गुणगणमणिमालाए जिणमयगयणे णिसायरमुणिंदो। तारावलिपरियरिओ पुण्णिमइंदुव्व पवणवहे ॥ १५८॥ गुणगणमणिमालया जिनमतगगने निशाकरमुनीन्द्रः । तारावलिपरिकलितः पूर्णिमेन्दुरिव पवनपथे ॥ गुणगणमणिमालाए गुणा अष्टाविंशतिमूलगुणाः दश धर्माः तिस्रो गुप्तयः अष्टादशशीलसहस्राणि द्वाविंशतिपरीषहाणां जय एते उत्तरगुणाः, गुणानां गणाः समूहा गुणगणास्त एव मणयो रत्नानि तेषां माला मुक्ताफलहारस्तया गुणगणमालया मुनिः शोभते इत्युपस्कारः । जिणमयगयणे णिसायरमुणिंदो जिनमतमाहतशासनं तदेव गगनं आकाश: पापलेपरहितत्वात् जिनमतगगनं तस्मिन् जिनमतगगने सर्वज्ञशासनाकाशे, निशाकरश्चन्द्रः निशां करोति उद्योतयति निशाकरो मुनीन्द्रः, तत्र मुनीन्द्रो दिगम्बर: निशाकरः पापान्धकारविच्छेदकत्वात्। तारावलिपरियरिओ तारावलिपरिकलितो नक्षत्रमालापरिवेष्टितो नक्षत्रमण्डलोपेतः । पुण्णिमइंदुव्व पवणवहे पूर्णिमेन्दुरिव पूर्णिमाचन्द्रव च्छोभते, पवनपथे गगनमार्ग इति शेषः । चक्कहररामकेसवसुरवरजिणगणहराइसोक्खाई। चारणमुणिरिद्धीओ विसुद्धभावा णरा पत्ता ॥ १५९ ॥ चक्रधररामकेशवसुरवरजिनगणधरादिसौख्यानि । चारणमुन्युद्धीः विशुद्धभावा नराः प्राप्ताः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy