________________
भावप्राभतं ।
२९९
40000rno.man
यमयरहरपडिया विषय एव मकरधरः समुद्रः तत्र पतिता बुडिताः । भविया उत्तारिया जेहिं भव्यजीवा उत्तारिता हस्तावलम्बनं दत्वा उत्तारिताः संसारसुखक्षारसमुद्रस्य पारं नीता:, यैरिवर्धमानश्रीगौतमस्वाम्यादिभिरिति मंगलाभिप्रायः ।
मायावेल्लि असेसा मोहमहातरुवरम्मि आरूढा । विसयविसपुप्फफुल्लिय लुणंति मुणि णाणसत्थेहिं ॥१५६॥
मायावल्लीमशेषां मोहमहातरुवरे आरुढाम् ।
विषय विषपुष्पपुष्पिता लुनन्ति मुनयः ज्ञानशस्त्रैः ॥ मायावेल्लि असेसा माया परवंचनस्वभावा सैव वल्ली प्रतानिनी तां मायावल्ली, अशेषां अनन्तानुबन्धिप्रभतिचतुर्भेदसमनां । मोहमहातरुवरम्मि आरूढा मोह एव तरुवरः पुत्रकलत्रमित्रादिस्नेहमहावृक्षस्तमारूढां चटितां । विसयविसपुप्फफुल्लिय विषया एव विषपुष्पाणि तैः पुष्पिता विषयविषपुष्पपुष्पिता तां । लुणंति मुणि णाणसत्थेहिं लुनन्ति च्छिन्दन्ति, के ते ? मुनयः सम्यग्ज्ञानसमुपेता दिगम्बरगुरव इत्यर्थः । केन, ज्ञानशस्त्रेण सम्यग्ज्ञानशस्त्रेण परशुना इति शेषः ।
मोहमयगारवेहि य मुक्का जे करुणभावसंजुत्ता । ते सव्वदुरियखंभं हणंति चारित्तखग्गेण ॥ १५७ ॥
मोहमदगारवैः च मुक्ता ये करुणभावसंयुक्ताः।
ते सर्वदुरितस्तंभं नन्ति चारित्रखड्गेन ॥ मोहमयगारवेहि य मोहः कलत्रपुत्रमित्रादिषु स्नेहः, मदो ज्ञानादिरष्टप्रकारो निजौन्नत्यं, गारवं शब्दगारवर्द्धिगारवसातगारवभेदेन त्रिविधं । तत्र शब्दगावं वर्णोच्चारगर्वः, ऋद्धिगारवं शिष्यपुस्तककमण्डलुपिच्छपट्टादिभिरात्मोद्भावनं, सातगारवं भोजनपानादिसमुत्पन्नसौख्यलीलामदस्तैर्मोहमदगारवैः। चकार उक्तसमुच्चयार्थस्तेन निजपक्षीयसधन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org