________________
२९६
षट्प्राभृतेजह सलिलेण ण लिप्पड़ यथा येन प्रकारेण ( सलिलेन ) न लिप्यते न स्पृश्यते । किं तत्कर्मतापन्नं, कमलिणिपत्तं सहावपयडीए कमलिनीपत्रं पद्मिनीच्छदः स्वभावप्रकृत्या निजस्वभावेन । तह भावेण ण लिप्पइ तथा तेन प्रकारेण भावेन जिनचरणकमलभक्तिलक्षणसम्यक्त्वेन करणभूतेन कृत्वा । कैः कर्तृभूतैः न लिप्यत, कसायविसएहि सप्पुरिसो कषायैः क्रोधमानमायालोभैः, विषयैः विषयसुखैः स्पर्शरसगन्धवर्णशब्दैः सत्पुरुषः सम्यग्दृष्टिजीवः । तथा चोक्तं --
धात्रीबालाऽसतीनाथपद्मिनीदलवारिवत् ।
दग्धरजुवदाभासं भुझन् राज्यं न पापभाक् ॥ १॥ ते चिय भणामिहं जे सयलकलासीलसंजमगुणेहिं । बहुदोसाणावासो सुमलिणचित्तोण सावयसमो सो ॥१५३॥
तानेव भणामि अहं ये सकलकलाशीलसंयमगुणः। .
बहुदोषाणामावासः सुमलिनचित्तः न श्वावकसमः सः ॥ ते चिय भणामिहं जे तानेव सत्पुरुषानहं कुन्दकुन्दाचार्यो भणामि कथयामि । तान् कान् , ये पुरुषाः सकलकलासीलसंजमगुणेहिं सकलकलाः परिपूर्णकलनाः सम्यक्परीक्षादायिनः, कः ? शीलसंयमगुणैः शीलनिकषक्षमाः संयमनिकषक्षमा गुणनिकषक्षमा भवन्ति । तथा चोक्तं
यथा चतुर्भिः कनक परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥१॥ तथा चोक्तं
१ अस्मादग्रे अयं पाठोऽधिकः ख. पुस्तके । सलिलेन जलेन न लिप्पइ कमलिनीदल इति सम्बन्धः । २ भुंजानोऽपि न पापभाक् इत्यपि क्वचित्पाठः ।
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org