SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २९५ जिनवरचरणाम्बुरुहं नमन्ति ये परमभक्तिरागेण । ते जन्मवल्ली मूलं खनन्ति वरभावशस्त्रेण ॥ जिणवरचरणंबुरुहं जिनोऽनेकविषमभवगहनव्यसनप्रापणहेतून् कारातीन् जयतीति जिनः " इजिकृषिभ्यो नक्"। जिनश्चासौ वरः श्रेष्टो जिनवरः । अथवा जिनानां गणधरदेवादीनां मध्ये वरः श्रेयस्करो जिनवरस्तस्य चरणावेवाम्बुरुहं जिनवरचरणाम्बुरुहं श्रीमद्भगवदहसर्वज्ञवीतरागपादपद्मं । णमंति जे परमभत्तिराएण नमन्ति नमस्कुर्वन्ति ये आसन्नभव्याः परमभक्तिरागेण परमभक्त्यनुरागेणाकृत्रिमस्नेहेन। ते जम्मवेल्लिमूलं ते पुरुषा जन्मवल्लीमूलं खनन्तीति सम्बन्धः, जन्मैव वल्ली संसारवीरुत् अनन्तानन्तप्रसारत्वात् तस्या मूलं कन्दं खनंति उत्पाटयन्ति उद्धरन्ति समूलकाषं कषन्तीत्यर्थः मोहस्य विच्छेदकत्वात् , संसारवल्लीमूलं मिथ्यात्वमोहः तस्य मूलं खनन्ति सम्यग्दृष्टयो भवन्ति । उक्तं च श्रीभोजराजमहाराजेन सुप्तोत्थितेन सुमुखेन सुमंगलाय ___ दृष्टव्यमस्ति यदि मंगलमेव वस्तु । अन्येन किं तदिह नाथ ! तवैव वक्त्रं त्रैलोक्यमंगलनिकेतनमीक्षणीयं ॥ १ ॥ खणंति वरभावसत्थेण खनन्ति निमूलकाषं कषन्ति, केन कृत्वा ? वरभावशस्त्रेण विशिष्टभावनाकुद्दालेन दात्रादिना वा । जह सलिलेण लिप्पइ कमलिणिपत्तं सहावपयडीए । तह भावेण ण लिप्पइ कसायविसएहि सप्पुरिसो ॥१५२॥ यथा सलिलेन न लिप्यते कमलिनीपत्रं स्वभावप्रकृत्या। तथा भावेन न लिप्यते कषाय विषयैः सत्पुरुषः ॥ १ इत्यनेन जि जये इत्यस्य धातोर्नगादेशः क इत् कित्वानैङ् । २ न. मू.। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy