________________
२९४
षट्प्राभूते
इय घाइकम्ममुक्को इति पूर्वोक्तलक्षणघातिकर्मभ्यो मुक्तः । अट्ठारहदोसवज्जिओ सयलो अष्टादशदोपवर्जितो रहितः, सकलः सह कलया शरीरेण वर्तते इति सकलः तेन तस्य धर्मोपदेशोऽपि घटते शरीरसंयुक्तपरमाप्तत्वात् । एतेनेदं वचनं प्रत्युक्तं भवति
अष्टविग्रहाच्छान्ताच्छ्विात्परमकारणात् ।
नादरूपं समुत्पन्नं शास्त्रं परमदुर्लभं ॥ १ ॥
अशरीरस्य शास्त्रोत्पतिर्न संगच्छते कूर्मरोमवत् बंध्यास्तनन्धयवत् शशविषाणवत् विष्णुपदलैतांतवत् मरुमरीचिकोदकवत् " अष्टौ स्थानानि वर्णानां " इति शब्दानां करणकारणत्वात् । तिहुवणभवणपईवो त्रैलोक्यगृहस्य दीपः प्रद्योतकः त्रिभुवनभवनप्रदीपः । देउ मम उत्तमं बोहं ददातु मम मह्यं उत्तमं बोधं केवलज्ञानं । इतीष्टप्रार्थना श्री कुन्दाकुन्दाचार्याणां शास्त्रकरणस्य फलाभिलाषित्वात् । अथ के ते अष्टादश दोषा इति चेदुक्ता अप्युच्यन्ते —
क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः ।
न रागद्वेषमोहाश्च यस्यातः स प्रकीर्त्यते ॥ १ ॥ चकाराच्चिन्ताऽरतिनिद्राविषादस्वेद खेद विस्मया गृह्यन्ते । निर्दोषपरमाप्तविचारो ऽष्टसहस्त्रीन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डाप्तपरीक्षातत्वार्थराजवार्तिकतत्वार्थश्लोक वार्तिकन्याय निश्चयालङ्कारादिषु महाशास्त्रेषु विस्तरेण ज्ञातव्यः ।
जिणवरचरणं बुरुहं णमंति जे परमभत्तिरायण | ते जम्मवेल्लमूलं खणति वरभावसत्थेण ।। १५१ ॥
१ नि. ख. । २ नादकपंकजच्छन्नं ख. । ३ मलांतवत् ख । ४ करणशब्दो नास्ति ख. पुस्तके | ५ न्यायविनश्चयेति विश्रुतिरन्यत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org