________________
भावप्राभृतं ।
२९३ ज्ञानी शिवः परमेष्ठी सर्वज्ञो विष्णुः चतुर्मुखो बुद्धः ।
आत्मापि च परमात्मा कर्मविमुक्तश्च भवति स्फुटम् ॥ सम्यग्दर्शनप्रभावेणायं संसारी जीवः सिद्धो भवतीति-न केवलं सर्वज्ञो भवतीत्यपिशब्दस्यार्थः । स सिद्धः कथंभूतः तस्य नाममालां प्रतिपादयन्नाह भगवान कुन्दकुन्दाचार्यः-णाणी सिव परमेही ज्ञानी ज्ञानमनन्तकेवलज्ञानं विद्यते यस्य स भवति ज्ञानी । शिवः परमकल्याणभूत: शिवति लोकाग्रे गच्छतीति शिवः । “ नाम्युपधप्रीकृगृज्ञों कः" । परमेष्ठी परमे इन्द्रचन्द्रधरणेन्द्रवंदिते पदे तिष्ठतीति परमेष्टी। औणादिकोऽयं प्रयोगः। सव्वण्हू विण्हू चउमुहो बुद्धो सर्व लोकालोकं जानाति वेत्तीति सर्वज्ञः । वेवेष्टि केवलज्ञानेन लोकालोकं व्यामोतीति विष्णुः “ विषेः किच्च" इत्यनेन नुप्रत्ययः स च कित् कानुबन्धत्वान्न गुणः । चतुर्मुखः भूतपूर्वनयापेक्षया चतुर्मुखः चतुर्दिक्षुसर्वसभ्यानां सन्मुखस्य दृश्यमानत्वात् सिद्धावस्थायां तु सर्वत्रावलोकनशीलत्वात् चतुर्मुखः । बुद्धयत सबै जानातीति बुद्धः । “ज्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः” इत्यनेन सूत्रेण वर्तमानकाले क्तप्रत्ययः । अप्पो वि य परमप्पो आत्मापि च संसारी जीवोऽपि च परमात्मा अर्हन् सिद्धश्च भवति । कथंभूतः सिद्धः, कम्मविमुक्को य होइ फुडं कर्मभ्यो विमुक्तो रहितो भवति संजायते स्फुटं निश्चयेनेति शेषः । एतत् सम्यग्दर्शनस्य महान् महिमा ज्ञातव्य इति भावार्थः ।
इय घाइकम्ममुक्को अट्ठारहदोसवज्जिओ सयलो । तिहुवणभवणपईवो देउ मम उत्तमं बोहं ॥ १५०॥
इति घातिकर्ममुक्तः अष्टादशदोषवर्जितः सकलः ।
त्रिभुवनभवनप्रदीपः ददातु मह्यमुत्तमं बोधम् ॥ १ इत्यनेन नाम्युपधशिवधातोः कप्रत्ययः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org