________________
२९२
षट्प्राभूतेयत्सर्वज्ञसमक्षमप्यविषयस्तस्यापि चार्थाद्विरां
तद्वः सूक्ष्मतमं स्वतत्वमभवा भाव्यं भवोच्छित्तये ॥१॥ तथा अनन्तसौख्यं भगवतः सिद्धस्य भवति तदप्यनन्तज्ञानगुणसद्भावात् परमानन्दोत्पत्तिलक्षणं वस्तुस्वरूपपरिच्छेदकत्वमेव वेदितव्यं । तथा चोक्तं विमानपंक्तयुपाख्यानपर्यन्ते । तथा हि
शास्त्र शास्त्राणि वा ज्ञात्वा तावं तुष्यन्ति साधवः । सवतत्वाथविज्ञानान्न सिद्धाः सुखिनः कथं ॥ ॥ चक्रिणां कुरुजातानां नागेन्द्राणां मरुत्वताम् । अनन्तगुणितं सौख्यमुत्तरोत्तरवर्तिनां ॥२॥ तत्रिकालभवात् सौख्यादनन्तगुणितं सुखं । सिद्धानां तु क्षणार्धेन ते वो यच्छन्तु तच्छिवं ॥ ॥ तथा ज्ञानं केवलज्ञानं लोकालोकवस्तुपरिज्ञायकं, दर्शनं चानन्तदर्शनं ज्ञानक्षण एव वस्तुसत्तास्वरूपेण ग्रहणलक्षणं बोद्धव्यं । चत्तारि वि पायडा गुणा होति चत्वारोऽपि गुणाः प्रकटा भवन्ति । कस्मिन् सति, णडे घाइचउक्के नष्टे विनाशं प्राप्ते घाइच उक्के -मोहज्ञानावरणदर्शनावरणान्तरायात्मकेवलज्ञानसाम्राज्यविध्वंसकारके कर्मशत्रुचतुष्टये । लोयालोयं पयासेदि लोकालोकं प्रकाशयति । लोक्यन्ते दृश्यन्ते जीवपुद्गलधर्माधमकालाकाशा यस्मिन्निति लोकः । ते न लोक्यन्तं न दृश्यन्ते यस्मिन् संसौर सर्वतोऽनन्तानन्तजीवादयः पदार्थाश्चालोकः । लोकश्वालोकश्च लोकालोकस्तं लोकालोकं प्रकाशयति जानाति पश्यति चेत्यथः। णाणी सिव परमेही सधण्हू विण्हु चउमुहो बुद्धो । अप्पो वि य परमप्पो कम्मविमुको य होइ फुडं ॥ १४९ ॥ १ श्लोका इमे घ्यशीतितमे पृष्ठे उद्धृतात्र लोकसारगाथाद्वय मनुवर्तन्ते । २ सुशिरे. ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org