SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९१ भावप्राभतं । mammmmmmmmmmmmmmmmmmmm त्रमोहनीयं पंचविंशतिभेदं, अकषायभेदा नव हास्यं रतिः अरतिः शोको भयं जुगुप्सा स्त्रीवेदः पुंवेदो नपुंसकवेदश्चेति नव नोकषाया अकषाया उच्यन्ते यथाख्यातचारित्रघातकत्वात्। षोडशकषायाः। तथाहि-अनन्तानुबन्धी क्रोधोऽनन्तानुबन्धी मानोऽनन्तानुबन्धिनी मायाऽनन्तानुबन्धिनो लोभश्चेति चत्वारः कषायाः सम्यक्त्वघातकाः पूर्वोक्तं त्रिविधं दर्शनमोहनीयं च । अप्रत्याख्यानक्रोधोऽप्रत्याख्यानमानोऽप्रत्याख्यानमायाऽ. प्रत्याख्यानलोभश्चेति चत्वारः कषायाः श्रावकवतघातकाः। प्रत्याख्यानक्रोधः प्रत्याख्यानमानः प्रत्याख्यानमाया प्रत्याख्यानलोभश्चेति चत्वारः कषाया महाव्रतघातकाः। संज्वलनक्रोधः संज्वलनमानः संज्वलनमाया संज्वलनलोभश्चेति चत्वारः कषाया यथाख्यातचारित्रघातकाः। अन्तरायः पंचविधो दानान्तरायो- लाभान्तरायो भोगान्तराय उपभोगान्तरायो वीर्यान्तरायश्चेति । एतत्सर्व कर्म णिवइ भवियजीवो निष्ठापयति क्षयं नयति, कोऽसौ ? भविकजीवो भव्यजनः । सम्मं जिणभावणा जुत्तो सम्यग्जिनभावनायुक्तो जिनसम्यक्त्वाराधक इत्यर्थः । बलसोक्खणाणदंसण चत्तारि वि पायडा गुणा होति । णहे घाइचउक्के लोयालोयं पयासेदि ॥ १४८ ॥ बलसौख्यज्ञानदर्शनं चत्वारोपि प्रकटा गुणा भवन्ति । नष्टे घातिचतुष्के लोकालोकं प्रकाशयति ॥ बलसोक्खणाणदंसण बलं चानन्तवीर्य केवलज्ञानदर्शनाभ्यामनन्तानन्तद्रव्यपर्यायस्वरूपपरिच्छेदकत्वलक्षणा शक्तिरनन्तवीर्यमुच्यते न तु कस्यचिद्घातकरणे भगवान् बलं विदधाति सूक्ष्मगुणाभावप्रसक्तेः । तथा चोक्तमाशाधरेण महाकविनायद्याहंति न जातु किंचिदपि न व्याहन्यते केनचिद यनिष्पीतसमस्तवस्त्वपि सदा केनापि न स्पृश्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy