________________
२९०
पप्राभूतेतु केवलज्ञानस्य केवलदर्शनस्य च कर्ता वर्तते । तथा अनन्तसुखस्य भोक्ता अनन्तवीर्यस्य च। अमूर्तो मूर्ते: शरीराद्रहित इति निश्चयः, व्यवहारेण तु कर्मबन्धप्रबन्धात् शरीरसंयुक्तत्वाच्च मूर्त इत्युच्यते। शरीरमित्तो अणाइणिहणो य शरीरमात्रः शरीरप्रमाण आत्मा वर्तत इति व्यवहारः तत्सुखदुःखाद्यावेदकत्वात् , निश्चयेन तु असंख्यातप्रदेशत्वालोकप्रमाणः। अनादिनिधनश्च जीवस्यादिर्नास्ति निधनं विनाशश्च न वर्तते । दसणणाणुवओगो दर्शनज्ञानोपयोगः व्यवहारेण चत्वारि दर्शनानि अष्टज्ञानानि उभयाभ्यां द्विविधोपयोगः, निश्चयेन तु केवलज्ञानकेवलदर्शनाभ्यां द्विविधोपयोगः परमनिश्चयेन तु आत्मा केवलज्ञानमेव तन्मयत्वात् । णिदिटो जिणवरिंदेहि निर्दिष्टः प्रतिपादितः कथित आत्मा जिनवरेन्द्रैः सर्वज्ञवीतरागैरिति तात्पर्यार्थः ।
दंसणणाणावरणं मोहणियं अंतराइयं कम्मं । णिवइ भवियजीवो सम्मं जिणभावणाजुत्तो ॥१४७॥
दर्शनज्ञानावरणं मोहनीयमन्तरायं कर्म ।
निष्ठापयति भव्यजीवः सम्यग्जिनभावनायुक्तः ॥ दसणणाणावरणं दर्शनावरणं नवविधं, तत्र चक्षुर्दर्शनावरणं अचक्षुर्दर्शनावरणं अवधिदर्शनावरणं केवदर्शनावरणं चेति चतुर्विधं दर्शनावरणं निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानगृद्धिश्चेति पंचविधानिद्रा एवं नवविधं दर्शनावरणं । मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्ययज्ञानावरणं केवलज्ञानावरणं चेति पंचविध ज्ञानावरणं । मोहणियं अंतराइयं कम्मं मोहनीयं कर्म अष्टाविंशतिभेदं, अन्तरायं कर्म पंचभेदं । तत्राटाविंशतिभेदं मोहनीय कर्म यथा-तत्र त्रिविधं दर्शनमोहनीयं सम्यक्त्वं मिथ्यात्वं सम्यग्मिथ्यात्वं चेति । चारि.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org