SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २८९ प्रकारेण भावितव्रतं व्रतैर्मण्डितं निरतिचारव्रतसहितं । जिणलिंगं दंसणविसुद्धं जिनलिंगं निग्रन्थमुनिपुंगववेषः दर्शनेन सम्यक्त्वेन विशुद्धं निर्मलं जिनशासने शोभते इति शेषः । इय गाउं गुणदोसं दंसणरयणं धरेह भावेण । सारं गुणरयणाणं सोवाणं पढम मोक्खस्स ।। १४५ ॥ इति ज्ञात्वा गुणदोषं दर्शनरत्नं धरत भावेन । सारं गुणरत्नानां सोपानं प्रथमं मोक्षस्य ॥ इय गाउं गुणदोसं इत्यमुना प्रकारेण ज्ञात्वा सम्यग्विचार्य गुणदोषं, सम्यक्त्वगुणरत्नमण्डितः पुमान् गुणवान्- मिध्यात्वेन दूषितो जीवो महापातकीति विज्ञायं । दंसणरयणं धरेह भावेण दर्शनरत्नं सम्यक्त्वरत्नं धरत यूयं भावेन शुद्धपरिणामेन कपटं परित्यज्येत्यर्थः । सारं गुणरयणाणं सारं उत्तमं गुणरत्नानां मध्ये व्रतसमितिगुप्यादीनां मध्ये दानपूजोपवासशीलव्रतादीनां च मध्ये सम्यक्त्वरत्नं सारं उत्तमं धरत यूयं हे भव्याः ! । कथंभूतं, सोवाणं पढम मोक्खस्स सोपानं आरोहणं पादारोपणस्थानं पढम-प्रथमं । कस्य, मोक्षस्य सर्वकर्मक्षयलक्षणोपलक्षितस्य मोक्षप्रासादस्योपरितनभूम्युपरिगमने, सिद्धपर्याय प्रापणमित्यर्थः । कत्ता भइ अमुत्तो सरीरमित्तो अणाइणिहणो य । दंसणणाणुवओगो णिद्दिहो जिणवरिंदेहि ॥ १४६ ॥ कर्त्ता भोगी अमूर्तः शरीरमात्रः अनादिनिधनश्च । दर्शनज्ञानोपयोगः निर्दिष्टो जिनवरेन्द्रैः ॥ कत्ता भोइ अमुत्तो जीवशब्द: पूर्वोक्त एवं ग्राह्यः । तेन जीव आत्मा कर्ता वर्तते । न कवलं कर्ता पुण्यस्य पापस्य च अपि तु भोगी पुण्यस्य पापस्य च फलस्य भोक्ता आस्वादक इति व्यवहारः. निश्चयेन षट्० १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy