________________
षट्प्राभृते
२८८
जह फणिराओ रेहइ फणमणिमाणिककिरणविप्फुरिओ । तह विमलदंसणधरो जिणभत्तीपवयणो जीवो ।। १४३ ॥
यथा फणिराजो राजते फणमणिमाणिक्यकिरणविस्फुरितः ।
तथा विमलदर्शनधरः जिनभक्तिप्रवचनो जीवः॥ जह फणिराओ रेहइ यथा फणिराजो धरणेन्द्रो राजते शोभते । कथंभूतः सन् राजते, फणमणिमाणिककिरणविप्फुरिओ फणानां सहस्रसंख्यफटानां सम्बन्धिनो ये मणयस्तेषु मध्ये यन्माणिक्यं पद्मरागमणिः मध्यफणाया उपरि स्थितं यल्लालरत्नं तस्य सर्वोत्तमरत्नस्य ये किरणा रश्मयस्तैर्विस्फुरितो धरणेन्द्रः शेषनागनामा पद्मावतीदेवीप्राणवल्लभः पातालस्वर्गलोकस्वामी यथा शोभते । तह विमलदसणधरो तथा तेन प्रकारेण विमलदर्शनधरो निर्मलसम्यक्त्वमंडितो मुनिः श्रावको वा । जिणभत्तीपवयणो जीवो जिनभक्तिरेव प्रवचनं गोप्यतत्वसिद्धान्तः, जीव आत्मा चातुर्गतिकोऽपि पंचेन्द्रियसज्ञिजीवः शोभते। तथा चोक्तं--
सम्यग्दर्शनसम्पन्नमपि मातङ्गन्देहऊं।
देवा देवं विदुर्भस्मगूढाङ्गारान्तरौजसं ॥१॥ जह तारायणसहियं ससहरबिंब खमंडले विमले। भाविय तह वयविमलं जिणलिंगं देसणविसुद्धं ॥१४४॥
यथा तारागणसहितं शशधरविम्बं खमण्डले विमले ।
भावितं तथा व्रतविमलं जिनलिङ्गं दर्शनविशुद्धम् ॥ जह तारायणसहियं यथा येन प्रकारेण तारागणसहितं । ससहरविंबं खमंडले विमले शशधरबिंबं चन्द्रमण्डलं खमण्डले गगनमण्डले । कथंभूते, यिमलेऽभ्रपटलादिरहिते । भाविय तह वयविमलं तथा तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org