________________
भावप्राभृतं ।
२८७ जैनलोके चलसवओ-सचेष्टितमृतकं मिथ्यादृष्टिर्मुनिः लोकोत्तराणां सम्यग्दृष्टिलोकानां अपूज्योऽमाननीयो भवति । इति भावप्राभूतस्य गोप्यतत्वं यत्सद्दृष्टिना जीवेन भवितव्यमिति । लौंकास्तु पापिष्ठा मिथ्याहष्टयो जिनस्नपनपूजनप्रतिबन्धकत्वात् तेषां संभाषणं न कर्तव्यं तत्संभाषणे महापापमुत्पद्यते । तथा चोक्तं कालिदासेन महाकविना
निवार्यतामालि ! किमप्ययं वटुः
पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतां विभाषते
शृणोति तस्मादपि यः स पापभाक् ॥ १ ॥ तेन जिनमुनिनिन्दका लौंकाः परिहर्तव्याः । तथा चोक्तं
खलानां कण्टकानां च द्विधैव प्रतिक्रिया। उपानन्मुखभंगो वा दूरतः परिवर्जनम् ॥ १॥ जह तारयाण चंदो मयराओ मयउलाण सव्वाणं । अहिओ तह सम्मत्तो रिसिसावयदुविहधम्माणं ॥१४२॥ यथा तारकाणां चन्द्रः मृगराजो मृगकुलानां सर्वेषाम् ।
अधिकः तथा सम्यक्त्वं ऋषिश्रावकद्विविधधर्माणाम् ॥ जह तारयाण चंदो यथा तारकाणां ताराणां मध्ये चन्द्रोऽधिक इति सम्बन्धः । मयराओ मयउलाण सव्वाणं मृगराजः सिंहः मृगकुलानां मध्ये सर्वेषामपि अधिकः प्रधानभूतः । अहिओ तह सम्मत्तो अधिकं तथा सम्यक्त्वं । केषां मध्ये सम्यक्त्वमधिकं, रिसिसावयदुविहधम्माणं ऋषीणां दिगम्बराणां श्रावकाणां च देशयतीनां द्विविधध. र्माणां मध्ये सम्यक्त्वमधिकं प्रधानभूतमित्यर्थः । अस्य षट्प्राभतग्रन्थस्य प्रारंभपरिसमाप्तिपर्यन्तं सम्यक्त्वमेव प्रशंसितमिति तात्पर्यार्थी ज्ञातव्य इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org