________________
२८६
षट्प्राभृते
मोहिओ जीवो कुनयैः कुत्सितनयैः सर्वथैकान्तरूपैः, कुशास्त्रैः चतुर्वेदाष्टादशपुराणाष्टादशस्मृत्युभयमीमांसादिशास्त्रैः
मोहितो भ्रान्ति प्राप्तो जीव आत्मा । भमिओ अणाइकालं भ्रान्तोऽयं पर्यटितो जीवोऽनादिकालं उत्सर्पिण्यवसर्पिणीकालबहुलं । संसारे धीर चिंतेहि हे धीर ! हे योगीश्वर ! संसारे भवे भ्रान्त इति चिन्तय विचारय ।
पासंडी तिणि सया तिसद्विभेया उमग्ग मुत्तूण | संभहि मणु जिणमग्गे असप्पलावेण किं बहुणा ॥ १४० ॥
पाषण्डिनः त्रीणि शतानि त्रिषष्टिभेदा उन्मार्ग मुक्त्वा । रुन्द्धि मनो जिनमार्गे असत्प्रलापेन किं बहुना ॥
पाखंडी तिणि सया पाषण्डिनस्त्रीणि शतानि । तिसहिभेया उम्मग्ग मुत्तूण तथा त्रिपष्टिभेदा उन्मार्ग मुक्त्वा । संभहि मणु जिणमग्गे रुन्द्वि मनो जिनमार्गे जिनधर्मे त्वं स्थापय । असप्पलावेण किं बहुणा असत्प्रलापेनानर्थकेन वचसा बहुना प्रचुरतरेण किं ? न किम पीत्याक्षेपः ।
जीवविमुको सवओ दंसणमुको य होड़ चलसवओ । सवओ लोयअपुजो लोउत्तरयम्मि चलसवओ ॥ १४१ ॥
जीवविमुक्तः शवः दर्शनमुक्तश्च भवति चलशवकः ॥ शवको लोकापूज्यः लोकोत्तरे चलशवकः ॥
जीवविमुको सवओ जीवविमुक्तो जीवेन रहितः कायो लोके शव उच्यते । दंसणमुको य होइ चलसवओ दर्शनमुक्तः पुमान् सम्यक्त्वहीनो जीवश्च भवति चलशवकः कुत्सितं मृतकं । सवओ लोयअपुज्जो जीवरहितः शवको लोकानामपूज्यः, अपूज्यत्वादेव भूमौ निखन्यते अग्निना भस्मीक्रियते वा । लोउत्तरियम्मि चलसवओ लोकोत्तरे लोवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org