SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं। २८५ नानानयदुष्टपरिणामैरित्यर्थः । धम्म जिणपण्णत्तं धर्म जिनेन केवलिना प्रणीतं । अभव्वजीवो ण रोचेदि अभव्यजीवो रत्नत्रयायोग्यो जीव आत्मा न रोचयति न श्रद्दधाति । कुच्छियधम्मम्मि रओ कुच्छियपासंडिभत्तिसंजुत्तो।। कुच्छियतवं कुणंतो कुच्छियगइभायणो होइ ॥ १३८ ॥ कुत्सितधर्मे रतः कुत्सितपाषण्डिभक्तिसंयुक्तः । कुत्सिततपः कुर्वन् कुत्सितगतिभाजनं भवति ॥ कुच्छियधम्मम्मि रओ कुत्सितधर्मे हिंसाधर्मे रतस्तत्परोऽनुरागवान् । कुच्छियपासंडिभत्तिसंजुत्तो कुत्सिता ऋषिपत्नीपादपद्मसंलग्नमस्तका ये पाषण्डिनो वशिष्टदुर्वासपाराशरयाज्ञवल्क्यजमदग्निविश्वामित्रभरद्वाजगौतमगर्गभार्गवप्रभृतय उपनिषत्प्रान्ते उक्ताश्च अतीता वर्तमानाश्च तेषां पापंडिनां भक्तिसंयुक्ताः करयोटनपादपतनभोजनदानादितस्परमनाः । कुच्छियतवं कुणंतो कुत्सितं तपः एकपादेनो. दीभूतोर्ध्वहस्तजटाधारणत्रिकालजलस्नानपंचाग्निसाधनादिकुत्सितं तपः कुर्वन् । कुच्छियगइभायणो होइ कुत्सितगते रकतिर्यग्योनिमलिनासुरव्यन्तरज्योतिष्ककिल्बिषिकवाहनदेवादिगते जनं स्थानं भवति-अनन्तसंसारी च स्यात् । “ब्रह्मणे ब्राह्मणमालभेत" इत्यादि कुत्सितो धर्मो ज्ञातव्यः। इय मिच्छत्तावासे कुणयकुसत्थेहि मोहिओ जीवो । भमिओ अणाइकालं संसारे धीर चिंतेहि ॥ १३९ ॥ इति मिथ्यात्वावासे कुनयकुशास्त्रैः मोहितो जीवः । भ्रान्तः अनादिकालं संसारे धीर ! चिन्तय ॥ इय मिच्छत्तावासे इति अमुना प्रकारेण मिथ्यात्वावासे मिथ्यात्वास्पदे प्रायेण मिथ्यात्वभूते संसारे इति सम्बन्धः । कुणयकुसत्थेहि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy