SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २७९ यलक्षणेन नमस्कारेण नमो न तु हास्येन । कथंभूतानां तेषां, पणहमायाणं प्रणष्टा विनाशं प्राप्ता माया परवंचना येषां ते प्रणष्टमायास्तेषां । इडिमतुलं विउव्विय किण्णरकिंपुरिसअमरखयरेहिं । तेहि वि ण जाइ मोहं जिणभावणभाविओ धीरो॥१२८॥ ऋद्धिमतुलां विकृतां किंनरकिम्पुरुषामरखचरैः । तैरपि न याति मोहं जिनभावनाभावितो धीरः ॥ इडिमतुलं विउव्विय ऋद्धिः पूर्वोक्तलक्षणा, अतुला अनुपमा, विकुर्विता विक्रियाकृता निजतद्भवान्यभवतपोमहिमसंजाता। तथा किण्णरकिंपुरिसअमरखयरेहिं किन्नरैः, किम्पुरुषैः, अमरैः कल्पवासिप्रभृतिभिश्च विहिता ऋद्धिः । तेहि विणं जाइ मोहं तैरपि किनरकिम्पुरुपामरखचरैरपि मोहं न याति लोभं न गच्छति । कोऽसौ, जिणभावणभाविओ धीरो जिनभावनया निर्मलसम्यक्त्वेन भावितो वासितो धीरो योगीश्वरः । ध्येयं प्रति धियमीरयतीति धीरः । किं पुण गच्छइ मोहं णरसुरसुक्खाण अप्पसाराणं जाणंतो पस्संतो चिंतंतो मोक्ख:मुणिधवलो ॥१२९॥ किं पुनः गच्छति मोहं नरसुरसुखानामल्पसाराणाम् । जानन् पश्यन् चिन्तयन् मोक्षं मुनिधवलः ॥ किं पुण गच्छइ मोहं किं पुनर्गच्छति मोहंः लोभं । परसुरसुक्खाण अप्पसाराणं नराणां नृपादीनां सम्बन्धिनां, सुराणामिन्द्रादीनां देवानां सम्बन्धिनां सौख्यानां मोहं. लोभं किं गच्छति-अपि तु न गच्छति । कथंभूतानां सौख्यानां, अल्पसाराणां स्तोकप्रशस्यानां वा अल्पस्वादानामित्यर्थः । जाणतो पस्संतो जानन्नपि अनुभूय दृष्ट्वा १ न. टी.। २ धीराः क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy