________________
२८०
षट्प्राभूतेजानन्नपि, पस्संतो-पश्यन् प्रत्यक्षं चक्षुा निरीक्षमाणोऽपि । चिंतंतो मोक्ख मुणिधवलो चिन्तयन्नपि विचारयन्नपि, किं ? मोक्षं सर्वकर्मक्षयलक्षणं मोक्षं परमनिर्वाणसुखं अनन्तसौख्यदायक परमनिर्वाणसुखं जानन्नपीत्यादिसम्बन्धः, मुनिधवल: मुनीनां मुनिषु वा धवलो निर्मलचारित्रभरोद्धरणधुरंधरो वृषभः श्रेष्ठ इत्यर्थः ।
उत्थरइ जा ण जरओ रोयग्गी जा ण डहइ देहउडिं । इंदियबलं न वियलइ ताव तुमं कुणहि अप्पहियं ॥१३०॥
आक्रमते यावन्न जरा रोगाग्निः यावन्न दहति देहकुटिम् ।
इन्द्रियबलं न विगलति तावत् त्वं कुरु आत्महितम् ॥ उत्थरइ जा ण जरओ आक्रमते यावन्न जरा। "छंदोत्थारौहावा आक्रमः" इति प्राकृतव्याकरणसूत्रेण आक्रमधातोरुत्थार इत्यादेशः । तर्हि उत्थारइ इतीदृशं रूपं स्यात् ? प्राकृते -हस्वदीर्धी मिथः भवतः " अचामचः प्रायेण” इति सूत्रेण, तत्र नास्ति दोषः “ आङो ज्योतिरुद्गमे: ” इति रुचादिपाठादात्मने पदं । अथवा उत्थारइ जाण जरा इति च कचित् पाठः । रोयग्गी जा ण डहइ देहउडि रोगाग्निविन्न दहति न भस्मीकरोति, कां ? देहकुटिं शरीरपणशालां । इंदियबलं न वियलइ इन्द्रियाणां चक्षुरादीनां बलं सामर्थं यावत्कालं न विगलति । इंदियबलं न वियलं इति पाठे इन्द्रियबलं यावद्विकलं हीनं न भवति । ताव तुमं कुणहि अप्पहियं तावत्त्वं हे मुनिपुंगव ! कुरु विधेहि, किं ? आत्महितं मोक्षं साधयेत्यर्थः । उक्तं च
पलितच्छलेन देहान्निगच्छति शुद्धिरेव तव बुद्धः ।
कथमिव परलोकार्थ जरी वराकस्तदा स्मरंसि ॥१॥ १ स्मरति. पाठान्तरमन्यत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org