________________
२७८
षट्प्राभूतेवन्ति, इत्यादीनि चतुस्त्रिंशदतिशयपंचकल्याणादीनि जिनोत्तमानां सुखानि बाह्यानि भवन्ति, अनन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखानि चाभ्यन्तरसुखानि भगवतां भवन्ति । तथा भावश्रवणा (नां) गणधरदेवानां तीर्थंकरयुवराज्यसौख्यानि भवन्ति । अन्भुदयपरंपराई सोक्खाई इन्द्रपदतीर्थकरकल्याणत्रयलक्षणानि कल्याणपरम्पराणि सौख्यानि भावश्रवणा अब्भ्यन्तरमहामुनयो भुञ्जत इति भावार्थः । पावंति भावसहिया प्राप्नुवन्ति लभन्ते, के ते ? भावसहिताः सम्यक्त्वचिन्तामणिमण्डितमनःस्थलयः खलु दिगम्बराः। संखेवि जिणेहिं वज्जरियं संखेविसमासेनोक्तमिदं वचनं जिनैः कथितमिति भावार्थः ।
ते धण्णा ताण णमो दंसणवरणाणचरणसुद्धाणं । भावसहियाण णिच्चं तिविहेण पणहमायाणं ॥ १२७॥
ते धन्यास्तेभ्यो नमः दर्शनवरज्ञानचरणशुद्धेभ्यः ।
भावसहितेभ्यो नित्यं त्रिविधेन प्रनष्टमायेभ्यः ते धण्णा ताण णमो ते मुनिपुंगवा धन्याः पुण्यवन्तः तेभ्योऽस्माकं श्रीकुन्दकुन्दाचार्याणां नमो नमस्कारो भवतु नमोऽस्तु स्तात् । दंसणवरणाणचरणसुद्धाणं सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चरणानि शुद्धानि निरतिचाराणि येषां, सम्यग्दर्शनज्ञानचारित्रैर्वा ये शुद्धाः कर्ममलकलङ्करहिता दर्शनवरज्ञानचरणशुद्धा ये मुनिपुंगवाः तेभ्यो नमः। कथंभूतेभ्यस्तेभ्यः, भावसहियाण भावेन शुद्धात्मपरिणामेन जिनसम्यक्त्वेन च सहितानां संयुक्तेभ्य इत्यर्थः । ननु नमःस्वस्तिस्वाहास्वधालंवषड्योगे चतुर्थी भवति तत्कथमत्र षष्ठीनिर्देशः ? सत्यं, संस्कृते तद्योगे चतुर्थी प्रोक्ता, न तु प्राकृते । कथं ? नित्यं-सर्वकालं-नमोनमोस्तु इत्यस्य विशेषणमिदं । केन कृत्वा नमः, तिविहेण मनोवाक्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org